एयर इंडियासंस्थायाः विमानस्य आपातकालीनं , सर्वे यात्रिणः सुरक्षि‍ताः
नव दिल्‍ली, 22 दिसंबरमासः (हि.स)। दिल्लीस्थितात् इन्दिरा-गान्धी-अन्ताराष्ट्रिय-विमानस्थानात् मुम्बईं प्रति अद्य प्रातः प्रस्थितम् एयर् इण्डिया-संस्थायाः विमानम् (उड्डयन-सङ्ख्या AI 887) अल्पसमयानन्तरं गगनात् प्रत्याहृतम्। तस्य विमानस्य आपत्कालीन-अवत
एयर इंडिया के विमान का जारी फोटो


नव दिल्‍ली, 22 दिसंबरमासः (हि.स)। दिल्लीस्थितात् इन्दिरा-गान्धी-अन्ताराष्ट्रिय-विमानस्थानात् मुम्बईं प्रति अद्य प्रातः प्रस्थितम् एयर् इण्डिया-संस्थायाः विमानम् (उड्डयन-सङ्ख्या AI 887) अल्पसमयानन्तरं गगनात् प्रत्याहृतम्। तस्य विमानस्य आपत्कालीन-अवतरणं कारितम्। विमानस्थे सर्वे यात्रिकाः सुरक्षिताः सन्ति।

आधिकारिक-सूचनायां कथितं यत्, तकनीकी-दोषस्य कारणात् एयर् इण्डिया-उड्डयन-सङ्ख्या AI 887 मुम्बईं प्रति गन्तुं न शक्नोति स्म, अतः मध्ये एव यात्रां विरम्य दिल्लीं प्रत्यागतवती। विमानस्थे सर्वे यात्रिकाः सुरक्षिताः एव सन्ति।

विमानं निर्धारितसमये दिल्ली-विमानस्थानात् उड्डयनं कृतवती, किन्तु उड्डयनानन्तरं कॉकपिटे तकनीकी-दोष-सूचकाः संकेताः दृश्यन्ते स्म। ततः पायलटेन सावधानतां प्रदर्श्य प्रत्यावर्तनस्य निर्णयः कृतः।

एयर् इण्डिया-संस्थया अस्य घटनायाः विषये प्रतिक्रिया दत्ता। प्रवक्त्रा उक्तं यत् यात्रिक-सुरक्षा एव सर्वोपरि अस्ति। तेन एव उक्तं यत् उड्डयन-सङ्ख्या AI 887 टेक्-ऑफ्-अनन्तरं किञ्चित्कालात् परं तकनीकी-दोषस्य कारणात् प्रत्यावर्तितवती। विमानस्य दिल्ली-विमानस्थाने सुरक्षितं अवतरणं कृतम्, तथा तस्मिन् स्थिताः सर्वे यात्रिकाः क्रू-सदस्याश्च सुरक्षिताः सन्ति।

---------------

हिन्दुस्थान समाचार