अजमेरदरगाहे प्रधानमंत्रिणे मोदिने आच्छादकं प्रदत्तं, केंद्रीय मंत्री किरेन रिजिजूः अकरोत् चादरपोशीति
अजमेरम्, 22 दिसंबरमासः (हि.स.)। अजमेरनगरस्थिते ख्वाजा गरीब नवाजस्य दरगाहे प्रचलति ८१४तमे वार्षिके उर्समहोत्सवे सोमवासरे भारतस्य प्रधानमन्त्री नरेन्द्रमोदिनः परतया अर्पिता। केन्द्रीयः अल्पसंख्यककार्यविषयकः मन्त्री किरेन्रिजिजू प्रधानमन्त्रिणा प्रे
चादर


अजमेरम्, 22 दिसंबरमासः (हि.स.)।

अजमेरनगरस्थिते ख्वाजा गरीब नवाजस्य दरगाहे प्रचलति ८१४तमे वार्षिके उर्समहोत्सवे सोमवासरे भारतस्य प्रधानमन्त्री नरेन्द्रमोदिनः परतया अर्पिता। केन्द्रीयः अल्पसंख्यककार्यविषयकः मन्त्री किरेन्रिजिजू प्रधानमन्त्रिणा प्रेषितं आच्छादकं गृहीत्वा अजमेरं प्राप्तवान् तथा च परम्परागतविधिना दरगाह शरीफे चादरारोहणं कृतवान्।

चादरारोहणानन्तरं केन्द्रीयमन्त्री किरेन्रिजिजू बुलन्दद्वारे स्थित्वा प्रधानमन्त्रीणः सन्देशं देशवासिनां कृते पाठयित्वा श्रावितवान्। कार्यक्रमस्य निमित्तं दरगाहपरिसरे तदसमीपे च सुदृढाः सुरक्षाव्यवस्थाः कृताः, बहुसंख्यकं पुलिसबलं नियुक्तम् आसीत्।

पूर्वं सर्किट् हाउसे माध्यमैः सह संवादं कुर्वन् केन्द्रीयमन्त्री किरेन्रिजिजू अवदत् यत् एषा चादर् प्रधानमन्त्रीणः, सरकारस्य तथा देशवासिनां तर्फेण अर्पिता। सः अवदत् यत् प्रधानमन्त्रिमन्त्रिमण्डलस्य सदस्यत्वेन सः स्वयमेव अत्र आगतः अस्ति, यत् सन्देशं सः दास्यति स एव प्रधानमन्त्रीणः सन्देशः भविष्यति। आत्मानं भाग्यवन्तं मन्यमानः सः अवदत् यत् अजमेरदरगाहं आगत्य देशे अमनः, शान्तिः, भ्रातृत्वं च प्रार्थयितुम् अवसरः लब्धः।

चादरार्पणानन्तरं केन्द्रीयमन्त्री किरेन्रिजिजू, केन्द्रीयमन्त्री भागीरथचौधरी, मन्त्री सुरेशरावतः तथा अन्ये जनप्रतिनिधयः महफिलखानं प्राप्तवन्तः। अत्र दरगाहदीवानस्य पुत्रः नसरुद्दीनचिश्ती तेषां स्वागतं कृतवान् तथा उर्समहोत्सवस्य शुभेच्छाः प्रेषितवान्। अस्मिन् समये देशे शान्तेः, सद्भावस्य, समृद्धेः च प्रार्थना कृता। खादिमैः दस्तारबन्धनं कृत्वा तबर्रुकम् अपि समर्पितम्।

उर्सावसरे लोकजनशक्ति पार्टी (रामविलास) इत्यस्य राष्ट्रीयाध्यक्षस्य तथा केन्द्रीयमन्त्रिणः चिरागपासवानस्य परतया अपि दरगाहे आच्छादकम् अर्पितम्। एतं आच्छादकं पक्षस्य राष्ट्रियमहासचिवः मोहम्मदसाबिरः अर्पितवान्। खादिमः जुहूरबाबाचिश्ती तस्मै जियारतं कारितवान्। चादरारोहणकाले सूफियानापरम्परानुसारं देशे अमनः, चैनः, समृद्धिः च प्रार्थिता।

चन्द्रदर्शनस्य अनन्तरं रविवासरातः एव ८१४तमे उर्समहोत्सवे आरम्भः अभवत्। उर्समहोत्सवस्य कारणेन देशविदेशाभ्यः लक्षशः जायरीनः अजमेरदरगाहं आगच्छन्ति। उर्सस्य विशेषावसरे जन्नतीद्वारम् अपि जायरीनां कृते उद्घाटितम्, यत् सामान्यदिनेषु बन्दं भवति।

---------------

हिन्दुस्थान समाचार