भजन संध्यायां भृशं कहलं,पुलिसकर्मिणः सेल्फीचित्रग्रहणे मग्नाः
फर्रुखाबादम्,22 दिसंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य फर्रुखाबाद जनपदे कादरीगेट थाना क्षेत्रे बाबा खाटू श्यामस्य भजनसन्ध्यायां रविवासरे तीव्रः कोलाहलः अभवत्। अत्र द्वयोः पक्षयोः मध्ये उत्पन्ने विवादे अनन्तरं परस्परं पट्टिकाभिः प्रहारः अपि आरब्धः।
भजन संध्या में बवाल कर रहे लोग


फर्रुखाबादम्,22 दिसंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य फर्रुखाबाद जनपदे कादरीगेट थाना क्षेत्रे बाबा खाटू श्यामस्य भजनसन्ध्यायां रविवासरे तीव्रः कोलाहलः अभवत्। अत्र द्वयोः पक्षयोः मध्ये उत्पन्ने विवादे अनन्तरं परस्परं पट्टिकाभिः प्रहारः अपि आरब्धः। अस्मिन् काले तत्र उपस्थिताः पुलिसकर्मिणः स्वकर्तव्यं विहाय आत्मचित्रग्रहणे (सेल्फी) आसक्ताः आसन्।

नगरस्य एकस्मिन् अतिथिगृहे आयोजितायां भजनसन्ध्यायां गायकः कन्हैया मित्तलः आगतः आसीत्। तस्य भजनानां श्रवणाय विशालः जनसमूहः समागतः आसीत्। सहसा संमर्दमध्ये कस्यचित् विषयस्य कारणेन द्वयोः पक्षयोः मध्ये विवादः उत्पन्नः, ततः उभयपक्षीयेषु जनैः परस्परं संघर्षः आरब्धः। अस्याः घटनायाः परिणामस्वरूपं कार्यक्रमस्थले अफरातफरी जाता।

घटनास्थले सुरक्षाव्यवस्थायां नियुक्ताः पुलिसकर्मिणः विवादकर्तॄन् ग्रहीतुं विहाय आत्मचित्रग्रहणे एव व्यस्ताः आसन्। एतस्मिन् समये मंचात् गायकः कन्हैया मित्तलः जनान् प्रति कलहं न कर्तुम् अनुरोधं कर्तुं बाध्यः अभवत्।

यदा भजनसन्ध्या अखाडारूपे परिणता तदा एव पुलिसकर्मिणां चेतना जागृता। ततः थानात् अतिरिक्तं पुलिसबलम् आहूय स्थितिः शान्तीकृता।

नगरक्षेत्राधिकारी ऐश्वर्या उपाध्याय महोदया सोमवासरे अवदत् यत् अस्य प्रकरणस्य अन्वेषणं प्रवर्तते। दोषिणां विरुद्धं कठोरं कार्यवाही भविष्यति इति सा अवदत्।

---------------

हिन्दुस्थान समाचार