Enter your Email Address to subscribe to our newsletters

१९०२ तमे वर्षे उत्तरप्रदेशस्य हापुड़-जनपदे जन्म प्राप्तवान् चौधरी चरणसिंहः भारतीय-राजनीतौ कृषकानां सशक्तः स्वरः इति प्रसिद्धः। सः देशस्य पञ्चमः प्रधानमन्त्री आसीत्, तथा स्वस्य सम्पूर्णं राजनैतिकजीवनं ग्रामीणभारतस्य उन्नतये, कृषिसुधाराय, कृषककल्याणाय च समर्पितवान्। तस्य विचाराणां नीतिनां च केन्द्रबिन्दुः सदा अन्नदाता एव आसीत्।
चौधरी चरणसिंहस्य दृढमतम् आसीत् यत् यावत् कृषकः सशक्तः न भवति, तावत् देशस्य अर्थव्यवस्था अपि सुदृढा न भवितुं शक्नोति। तेन जमीन्दारी-उन्मूलनम्, भूमिसुधारः, कृषकाणां अधिकार-प्रतिष्ठापनं च कृत्वा अनेकानि ऐतिहासिकानि पादानि स्थापितानि। उत्तरप्रदेशे भूमिसुधार-कानूनानां कार्यान्वयने तस्य भूमिका विशेषतया उल्लेखनीया आसीत्।
प्रधानमन्त्रित्वकालेऽपि सः अन्धाधुन्ध-नगरीकरण-आदर्शस्य स्थाने कृष्याधारित-अर्थव्यवस्थायाः महत्त्वं प्रतिपादितवान्। सः कृषकान् केवलं मतदाता-वर्गरूपेण न, अपि तु राष्ट्रनिर्माणस्य आधारशिलारूपेण मन्यते स्म। तस्य सादगी, स्पष्टवादिता, सिद्धान्तेषु अडिगनिष्ठा च तं अन्येभ्यः नेतृभ्यः विशिष्टं कुर्वन्ति।
कृषकहितेषु प्रदत्तानां तस्य अतुलनीय-योगदानानां सम्मानार्थं तस्य जन्मदिवसः २३ दिसम्बरः सम्पूर्णे देशे ‘किसान-दिवसः’ इति रूपेण आचर्यते। एषः दिवसः न केवलं चौधरी चरणसिंहस्य स्मरणस्य अवसरः, अपि तु भारतीय-कृषकस्य संघर्षस्य, योगदानस्य, अधिकाराणां च सम्मानस्य प्रतीकः अपि अस्ति।
महत्त्वपूर्ण-घटनाक्रमः
१४६५ — विजयनगरस्य शासकः वीरूपक्षः द्वितीयः तालीकोटायां युद्धे अहमदनगर–बीदर–बीजापुर–गोलकुण्ड-युक्तमुस्लिमसेनया पराजितः।
१६७२ — खगोलविद् जियोवनी कैसिनीना शनिग्रहस्य उपग्रहः ‘रिया’ अन्वेषितः।
१८९४ — रवीन्द्रनाथ टैगोरः पश्चिमबंगाले शान्तिनिकेतने पूषमेला उद्घाटितवान्।
१९०१ — शान्तिनिकेतने ब्रह्मचर्याश्रमः औपचारिकरूपेण उद्घाटितः।
१९०२ — चौधरी चरणसिंहस्य जन्मः।
१९१२ — नूतन-दिल्ली राजधानी-घोषणायै वायसराय् लॉर्ड् हार्डिङ् द्वितीयः हस्त्यारूढः नगरं प्रविष्टवान्; तस्मिन्नेव समये बम-विस्फोटे सः घायलः अभवत्।
१९१४ — प्रथम-विश्वयुद्धे ऑस्ट्रेलिया–न्यूजीलैण्ड-सेनाः मिस्रदेशस्य काहिरा-नगरीं प्राप्ताः।
१९२१ — विश्वभारती-विश्वविद्यालयस्य उद्घाटनम्।
१९२२ — बीबीसी-रेडियोद्वारा नित्य-समाचार-प्रसारणस्य आरम्भः।
१९२६ — आर्यसमाज-प्रचारकः स्वामी श्रद्धानन्दः हतः।
१९६८ — देशस्य प्रथमः मौसम-अनुसन्धान-रॉकेट् ‘मेनका’ सफलतया प्रक्षिप्तः।
१९६९ — चन्द्रात् आनीतानि शिलाखण्डाः राजधानीस्थ-प्रदर्शन्याम् प्रदर्शिताः।
१९७२ — निकारागुआदेशस्य राजधानी मनागुआ-नगरे भूकम्पेन प्रायः दशसहस्राणि जनाः मृताः।
१९७६ — मॉरिशसदेशे सर् शिवसागर रामगुलामेन संयुक्त-सर्वकारः गठितः।
१९९५ — हरियाणायां मंडी-डाबवाली-क्षेत्रस्थ-विद्यालये अग्निकाण्डे ३६० जनानां मृत्युः।
२००० — न्यूज़ीलैण्डेन ऑस्ट्रेलियाम् अतिक्रम्य विश्व-महिला-क्रिकेट-खिताबः जितः।
२००० — पश्चिमबंगालस्य राजधानी ‘कलकत्ता’ इत्यस्य आधिकारिकं नाम ‘कोलकाता’ कृतम्।
२००२ — इजराइली-सेनाया अपसारणपर्यन्तं फिलिस्तीन-निर्वाचनं स्थगितम्।
२००३ — इजराइलदेशेन गाजा-पट्टी-आक्रमणम्।
२००५ — पोलैण्डदेशे लेक् काचिंस्की राष्ट्रपतिपदम् आरूढः।
२००७ — पाकिस्तानदेशे आपत्कालस्य वैधता न्यायालयेन अनुमोदिता।
२००८ — सत्यम्-सॉफ्टवेयर-कम्पनीं प्रति विश्वबैंक-द्वारा प्रतिबन्धः।
२००८ — कथाकारः गोविन्द मिश्रः ‘कोहरे के क़ैद रंग’ उपन्यासाय साहित्य-अकादमी-पुरस्कारेण सम्मानितः।
२०१९ — दिल्लीस्य किराड़ी-क्षेत्रे त्रितल-भवने अग्निकाण्डे नव जनाः मृताः।
२०१९ — सऊदी-अरब-देशे पत्रकारस्य जमाल् खशोगी-हत्या-प्रकरणे पञ्च जनाः मृत्युदण्डेन दण्डिताः।
जन्म
१८४५ — रासबिहारी घोषः — राजनीतिज्ञः, प्रसिद्धः अधिवक्ता, समाजसेवकः।
१८६५ — स्वामी सारदानन्दः — रामकृष्णपरमहंसस्य शिष्यः।
१८८८ — सत्येन्द्रचन्द्र मित्रः — स्वतन्त्रतासेनानी, राजनीतिज्ञः।
१८८९ — मेहरचन्द महाजनः — भारतस्य सर्वोच्चन्यायालयस्य तृतीयः मुख्यन्यायाधीशः।
१८९९ — रामवृक्ष बेनीपुरी — उपन्यासकारः, कथाकारः, निबन्धकारः, नाटककारः, पत्रकारः।
१९०२ — चौधरी चरणसिंहः — भारतस्य पञ्चमः प्रधानमन्त्री, कृषकानां प्रखरः नेता।
१९२३ — अवतारसिंह रिखी — लोकसभायाः भूतपूर्वः महासचिवः।
१९४२ — अरुण बाली — प्रसिद्धः दूरदर्शन-चित्रपट-अभिनेता।
१९५९ — शिवकुमार सुब्रमण्यम् — प्रख्यातः अभिनेता, पुरस्कार-विजेता लेखकः।
निधन
१९२६ — स्वामी श्रद्धानन्दः — स्वतन्त्रतासेनानी, समाजसुधारकः।
१९४१ — अर्जुनलाल सेठी — स्वतन्त्रतासेनानी।
२००० — नूरजहाँ — प्रसिद्धा अभिनेत्री, गायिका।
२००४ — पामुलपर्ति वेंकट नरसिंह रावः — भारतस्य दशमः प्रधानमन्त्री।
२०१० — के. करुणाकरनः — केरलस्य भूतपूर्वः मुख्यमन्त्री।
२०२४ — श्याम बेनेगलः — हिन्दी-चलच्चित्र-जगतः अग्रणी-निर्देशकः।
महत्त्वपूर्ण-दिवसः
किसान-दिवसः — (चौधरी चरणसिंहस्य जयंती)।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA