Enter your Email Address to subscribe to our newsletters

जयपुरम्, 22 दिसंबरमासः (हि.स.)।
काङ्ग्रेस्-पक्षस्य सांसदः रञ्जित्-रञ्जनः विशेषायां पत्र-वार्तायां केन्द्रस्य मोदिसर्वकारस्य विरुद्धं गम्भीरम् आरोपम् अकरोत्। तेन उक्तं यत् मनरेगा-योजनां दुर्बलां कृत्वा व्यवहारतः समूलं नाशयितुं केन्द्र-सर्वकारः प्रयत्नं करोति। सः अवदत् यत् “सुधार” इति नाम्ना लोकसभायां पारितं नूतनं विधेयकं जगति सर्वाति-विशालायाः रोजगार-गारन्टी-योजनायाः मनरेगायाः वधतुल्यम् अस्ति, तथा च देशस्य अत्यन्तदरिद्रनागरिकेभ्यः कार्याधिकारं हर्तुं जानबूझकर कृतः प्रयासः अस्ति।
सांसदः रञ्जित्-रञ्जनः अवदत् यत् विगतद्विदशकयोः एषा योजना कोट्यधिकानां ग्राम्यपरिवाराणां कृते जीवनरेखारूपेण आसीत्, तथा कोविड्-१९ महामारीकाले आर्थिकसुरक्षाकवचरूपेण कार्यं अकरोत्। किन्तु अधुना सरकारेण न केवलं गान्धिनो नाम अपसारितम्, अपि तु प्रायः द्वादशकोटि मनरेगा-मजदूराणां अधिकाराः अपि पददलिताः।
तेन आरोपितं यत् संवत्सरात् २०१४ आरभ्य एव प्रधानमन्त्री नरेन्द्रमोदी मनरेगा-योजनायाः विरोधी आसीत्। गतैकादशवर्षेषु बजटस्य कटौतीः, राज्येभ्यः निधीनां निरोधः, जॉब्-कार्ड्-निरसनं, आधार-आधारित-भुगतानस्य अनिवार्यता च कृत्वा प्रायः सप्तकोटि मजदूराः योजनातः बहिष्कृताः। अस्य परिणामस्वरूपं विगतपञ्चवर्षेषु मनरेगायाः अन्तर्गतं वार्षिकं कार्यदिवसानां संख्या पञ्चाशत्-पञ्चपञ्चाशत्-दिनपर्यन्तं संकुचिता।
सः अपि अवदत् यत् मनरेगा पूर्णतया केन्द्र-प्रायोजिता योजना आसीत्, किन्तु अधुना मोदी-सर्वकारो राज्येषु प्रायः पञ्चाशत्सहस्रकोटिरूप्यकाणि अथवा ततोऽधिकं भारं निक्षेपयितुं इच्छति। नियन्त्रणं श्रेयश्च केन्द्रे एव भविष्यतः, व्ययभारः तु राज्यैः वहनीयः भविष्यति। एतत् सहकारी-संघवादस्य विरुद्धम् इति तेन उक्तम्।
सांसदः आरोपं कृतवान् यत् नूतने प्रणाल्यां निश्चितकालाय बलात् जीविका निरोद्धुं शक्यते। निधीनां समाप्तेः नाम्ना अथवा शस्यऋतु-कारणेन मजदूराः मासान् यावत् कार्यात् वञ्चयितुं शक्यन्ते। रञ्जितरञ्जनः अवदत् यत् एषः निर्णयः महात्मा-गान्धेः आदर्शानाम् अपमानः अस्ति तथा ग्राम्य-जीविकायाः विरुद्धः प्रकटः आक्रमणम् अस्ति।
तेन संचेतना दत्ता यत् काङ्ग्रेसपक्षः श्रमिक-सङ्गठनैः सह एतस्य जन-विरोधिनः, मजदूर-विरोधिनः, संघीय-संरचनाविरोधिनश्च निर्णयस्य विरुद्धं मार्गात् आरभ्य संसद्-पर्यन्तं सर्वेषु मंचेषु तीव्रं विरोधं करिष्यति। अस्यां प्रेस्-वार्तायां विपक्षनेता टीका-राम-जूलि, पक्षस्य महासचिवः तथा मीडिया-चेयरपर्सन् स्वर्णिम्-चतुर्वेदी च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार