Enter your Email Address to subscribe to our newsletters

नवदेहली, 22 दिसंबरमासः (हि.स)। केन्द्रीयवाणिज्य-उद्योग-मन्त्री पीयूष-गोयलः सोमवासरे अवदत् यत् भारतः तथा अमेरिकादेशस्य द्विपक्षीय-व्यापार-सन्धिविषये वार्तायाः उन्नत-चरणे वर्तेते। भारत–न्यूजीलैंड-मुक्तव्यापार-सन्धिविषये वार्ता समाप्ता इति सति गोयलः अत्र माध्यमैः सह संवादे अवदत् यत् वयं अमेरिकया सह स्ववार्तायां पूर्वमेव उन्नत-चरणे स्मः। सः अवदत् यत् अमेरिकायाः उप-व्यापार-प्रतिनिधिः रिक् स्विट्जरः अद्यतनकाले स्वदलसहितः व्यापार-वार्तायाः समीक्षार्थम् भारतम् आगतः आसीत्। द्विदिवसीया वार्ता ११ डिसम्बर् तिथौ समाप्ता अभवत्। सः भारत–न्यूजीलैंडयोः मध्ये एफटीए सम्पन्ने सति भारताय तथा विविध-क्षेत्रेभ्यः लभ्यमानानाम् अभूतपूर्व-अवसराणां विषये प्रकाशं अकरोत्। सः अवदत् यत् अस्माकं व्यापारिणः, निर्यातकाः, एमएसएमई, कृषकाः, महिला-उद्यमिन्यः, युवजनाः तथा कर्मिणः अधिकान् अवसरान् प्राप्स्यन्ति। गोयलः अस्मिन्नपि बलेन उक्तवान् यत् एषः ऐतिहासिकः सन्धिः विकसितभारत-२०४७ इति दृष्टेः अनुरूपं वैश्विक-व्यापार-सहाभागिताविस्तारं करिष्यति।
वाणिज्य-उद्योग-मन्त्री अवदत् यत् भारतः कनाडा-सह अपि व्यापार-सन्धिविषये वार्तां पुनः आरब्धुं प्रक्रियायाम् अस्ति। वयं शीघ्रमेव कनाडादेशेन सह टीओआर् (सन्दर्भ-शर्ताः) विषये चर्चां आरभामहे। अनेन विश्व-भू-राजनीत्यां भारतस्य वर्धमानं रणनीतिक-महत्त्वं प्रकटं भवति। सः अपि अवदत् यत् भारतः अद्यावधि ‘फाइव्-आइज्’ गठबन्धनस्य त्रयः सदस्यैः—ऑस्ट्रेलिया, ब्रिटेन तथा न्यूजीलैंड—सह मुक्त-व्यापार-सन्धौ अन्तिमरूपेण सम्पन्नं कृतवान् अस्ति। अस्मिन् गुप्तचर-सूचना-सहाभागिता-जाले पञ्च देशाः—ऑस्ट्रेलिया, कनाडा, न्यूजीलैंड, ब्रिटेन तथा अमेरिका—समाविष्टाः सन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता