पर्वतीयबालानां स्वप्नान् वर्णयति भारतीयसेना
पिथौरागढम्, 22 दिसंबरमासः (हि.स.)। धारचूला (पिथौरागढ़) स्थितेन भारतीयसेनायाः कुमाऊँ स्काउट्स् इति सैन्य-एककेन एकं प्रशंसनीयं मानवीय-उद्यमं कृत्वा गालाती प्राथमिक विद्यालयस्य छात्रेभ्यः अध्ययन-सामग्री वितरणं कृतम्। धारचूलाक्षेत्रस्य एकस्मिन् दुर्गमे
पर्वतीय बच्चों के सपनों में रंग भर रही है भारतीय सेना


पिथौरागढम्, 22 दिसंबरमासः (हि.स.)। धारचूला (पिथौरागढ़) स्थितेन भारतीयसेनायाः कुमाऊँ स्काउट्स् इति सैन्य-एककेन एकं प्रशंसनीयं मानवीय-उद्यमं कृत्वा गालाती प्राथमिक विद्यालयस्य छात्रेभ्यः अध्ययन-सामग्री वितरणं कृतम्। धारचूलाक्षेत्रस्य एकस्मिन् दुर्गमे ग्रामे स्थितं गालाती-ग्रामं भारतीयसेनायाः अनेन मानवीय-उपक्रमेण विशेषतः लाभान्वितं जातम्।

सेनासैनिकैः छात्रेभ्यः लेखनी, अभ्यासपुस्तिका, लेखन-दण्डिका, पृष्ठपुटः तथा अन्याः अध्ययन-सहायक-सामग्र्यः प्रदत्ताः। एतेषु उपहारेषु बालकेषु अत्यन्तं हर्षोल्लासः दृष्टः। विद्यालयस्य अध्यापकाः अपि सेनायाः अस्य कदमस्य मुक्तकण्ठेन प्रशंसां कृत्वा अवदन् यत् एतेन ग्रामीण-प्रदेशेषु बालानां शिक्षायां प्रति रुचिः तथा जागरूकता च वर्धिष्यते। सेनाधिकारिभिः कथितं यत् अस्य उपक्रमस्य उद्देश्यं केवलं विद्यार्थिनः अध्ययनाय प्रोत्साहितुं न, अपि तु तेषु राष्ट्रसेवायाः भावना अपि जागर्तुं वर्तते। अस्मात् उपक्रमात् बालकेभ्यः सामाजिक-उत्थानस्य बोधः प्राप्तः, तथा भविष्ये सशस्त्र-बलसंस्थासु सम्मिलितुं प्रेरणा अपि प्राप्ता अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani