Enter your Email Address to subscribe to our newsletters

जांजगीर-चांपा/रायपुरम्, 22 दिसंबरमासः (हि.स.)।
छत्तीसगढराज्ये विष्णुदेवसायस्य सर्वकारस्य द्वे वर्षे पूर्णे अभवतम्। प्रदेशसर्वकारस्य द्विवर्षपूर्त्यवसरे समग्रप्रदेशस्य विविधजिलासु अनेकानां विशालानां कार्यक्रमाणां सम्मेलनानां च आयोजनं क्रियते। अस्य एव अनुक्रमे जांजगीरचांपाजिलायाम् अद्य पुलिसलाइने आयोजितायां विशालायां आमसभायां केन्द्रीयमन्त्री तथा भाजपाराष्ट्राध्यक्षः जेपी नड्डा जनान् सम्बोधयिष्यति। कार्यक्रमस्य अध्यक्षतां मुख्यमंत्री विष्णुदेवसायः करिष्यति।
मुख्यमन्त्रालयस्य सूचनानुसारं नड्डा मध्याह्ने द्वादशवादनपञ्चदशमिनिटे रायपुरं आगमिष्यति। ततः सः उदग्रविमानेन जांजगीरं प्रस्थानं करिष्यति। भाजपाध्यक्षः नड्डा तत्र सम्मेलनं समाविश्य जनतां सम्बोधयिष्यति। जांजगीरे अद्य आयोजिते अस्मिन् सम्मेलने भाजपाध्यक्षेण जेपी नड्डेन सह मुख्यमंत्री विष्णुदेवसायः सरकारस्य अनेके मन्त्रिणः विधायकाः च तथा प्रदेशभाजपायाः बहवः वरिष्ठनेतारः अपि सम्मेलिष्यन्ति।
अस्य कार्यक्रमस्य समापनानन्तरं भाजपाध्यक्षः नड्डा सायं चतुर्वादनत्रिंशन्मिनिटे भोपालं प्रति प्रस्थानं करिष्यति। अस्मिन् अवसरे जनकल्याणकारीयोजनानां पात्रेभ्यः हितग्राहिभ्यः लाभः अपि प्रदीयते। सुप्रसिद्धाः लोककलाकाराः पद्म अनुज शर्मा अन्ये च कलाकाराः सांस्कृतिककार्यक्रमाणां प्रस्तुतीं करिष्यन्ति। एतदतिरिक्तं कार्यक्रमस्थले गतद्विवर्षयोः विभिन्नविभागानां उपलब्धीनां आधारेण विकासप्रदर्शनी अपि आयोजिता भविष्यति।
हिन्दुस्थान समाचार