रेलभाटके एकं पणकं प्रत्येकं किमीमितं वृद्धिंगतम् इत्याधृत्य राजनीतिर्न भवेत् : प्रल्हादजोशी
हुबली, 22 दिसंबरमासः (हि.स.)। रेलवेचिटिका-मूल्यवृद्धेः विषये केन्द्रीयमन्त्री प्रल्हादजोशी महोदयः अवदत् यत् एषा वृद्धिः केवलं प्रतिकिलोमीटरमितं एकपणकमात्रम् अस्ति। अस्मिन् विषये राजनीति न कर्तव्या। एतत् निर्णयः दरिद्राणां साधारणयात्रिकाणां च कस्या
Joshi


हुबली, 22 दिसंबरमासः (हि.स.)।

रेलवेचिटिका-मूल्यवृद्धेः विषये केन्द्रीयमन्त्री प्रल्हादजोशी महोदयः अवदत् यत् एषा वृद्धिः केवलं प्रतिकिलोमीटरमितं एकपणकमात्रम् अस्ति। अस्मिन् विषये राजनीति न कर्तव्या। एतत् निर्णयः दरिद्राणां साधारणयात्रिकाणां च कस्यापि प्रकारस्य असुविधां निवारयितुं गृहीतः अस्ति।

केन्द्रीय-उपभोक्तृकार्य-, खाद्य- तथा सार्वजनिक-वितरणमन्त्री जोशी महोदयः अत्र हुबली-नगरे माध्यमैः सह वार्तालापं कुर्वन् आसीत्। एकस्मिन् प्रश्नस्य उत्तरं दत्त्वा सः अवदत्— “यदा अहं विपक्षे आसीत्, तदा अहं लोकसभायां रेलकिरायवृद्धेः विरुद्धं स्वरं उद्घोषितवान्। तदा स्थितिः भिन्ना आसीत्, किन्तु वर्तमानसर्वकारेण जनतायाः उपरि अनावश्यकः भारः न आरोपितः। किराये केवलं एकपैसामात्रा वृद्धिः कृता अस्ति।”

जोशी महोदयः अवदत् यत् स्थानीय-बसयानभाटकवृद्ध्या सह तुलनां कुर्वन्, रेलयानभाटकं कृतं वृद्धिः अत्यल्पम् अस्ति। एषः निर्णयः दरिद्राणां साधारणयात्रिकाणां च हितं दृष्ट्वा गृहीतः अस्ति, येन तेषां कस्यापि प्रकारस्य असुविधा न भवेत्।

केन्द्रसर्वकारः जनतायाः अपेक्षां दृष्ट्वा रेलसेवानां विस्तारं, स्वच्छतां तथा यात्रिक-सुविधानां विकासं च अपि विशेषतया मनसि कृतवती अस्ति। रेलविभागः सर्वेषां यात्रिकाणां कृते अनुदानं प्रददाति। जोशी महोदयः अपि अवदत् यत् एतत् विषयः राजनैतिक-आयुधरूपेण न उपयोक्तव्यः।

---------------

हिन्दुस्थान समाचार