Enter your Email Address to subscribe to our newsletters

भोपालम्, 22 दिसंबरमासः (हि.स.)।
प्रतिवर्षवत् अस्मिन्नपि वर्षे गणतन्त्रदिवसः हर्षोल्लासेन धूमधाम्ना च आचर्यते। प्रदेशस्य मुख्यसमारोहः षड्विंशतितमे जनवरीमासे जहाँगीराबादस्थे लाल्-परेडक्रीडांगणे आयोजयिष्यते। “बीटिङ्ग् द रिट्रीट्” इति समारोहः एकोनत्रिंशतितमे जनवरीमासे भविष्यति। एतयोः उभयोः कार्यक्रमयोः सिद्धतासम्बन्धेन सोमवासरे अतिरिक्तः पुलिसमहानिदेशकः एस् ए एफ (एडीजी) चञ्चलशेखरः सम्बन्धिताधिकारिणामुपवेशनम् आहूतवान्।
नवीनपुलिसमुख्यालयस्य भूतलस्थे सभाकक्षे आयोजितायामुपवेशने एडीजी शेखरः अधिकारिणः निर्देशितवान् यत् सर्वाः सिद्धताः गणतन्त्रदिवसस्य गरिमां दृष्ट्वा अन्तिमरूपेण सम्पन्नाः क्रियन्ताम्। तेन गणतन्त्रदिवसपरेडार्थं विभिन्नेभ्यः एककेभ्यः बलस्य आह्वानम्, परेडक्रीडांगणस्य स्वच्छता, सुरक्षा, यातायातव्यवस्था, दर्शकाणां तथा आमन्त्रितानां अतिथीनां आसनव्यवस्था, झाँकीव्यवस्था, चिकित्साव्यवस्था इत्यादिषु विषयेषु विभिन्नाधिकारिणः उत्तरदायित्वैः नियुक्ताः।
“बीटिङ्ग् द रिट्रीट्” समारोहकाले वाद्यध्वनीनां चयनम्, आतिशबाजीव्यवस्था, विद्युत्-व्यवस्था इत्यादिषु अपि आवश्यकनिर्देशाः दत्ताः तथा अधिकारिणां उत्तरदायित्वं सुनिश्चितं कृतम्। तत्र निश्चितं कृतं यत् गणतन्त्रदिवससमारोहस्य कृते प्रयाणस्य अभ्यासः चतुर्थे जनवरीमासे आरभ्यते, तथा च पूर्णवेशयुक्ता अन्तिमाभ्यासिका चतुर्विंशतितमे जनवरीमासे भविष्यति।
अस्यां गोष्ठ्यां पुलिसमहानिरीक्षकः एस् ए एफ इरशाद्वली, उपपुलिसमहानिरीक्षकः विसबल् मध्यप्रदेशक्षेत्रस्य ओमप्रकाशत्रिपाठी, सप्तमवाहिन्याः सेनानी हितेशचौधरी च, तथा पुलिसमुख्यालयस्य विविधशाखानां पुलिसाधिकारिणः, लोकनिर्माणविभागस्य, स्वास्थ्यविभागस्य, शिक्षाविभागस्य, नगरनिगमस्य, महिला-बालविकासविभागस्य च अधिकारीणः उपस्थिताः आसन्।
“बीटिङ्ग् द रिट्रीट्” समारोहः एकोनत्रिंशतितमे जनवरीमासे आयोजयिष्यते। “बीटिङ्ग् द रिट्रीट्” इति सैन्यानाम् अर्धसैन्यानां च प्राचीनपरम्परा अस्ति। युद्धानन्तरं यदा सैन्यदलानि स्वीयेषु शिबिरेषु प्रत्यागच्छन्ति स्म, तदा तनावशमनार्थं वाद्यवादनं तथा मनोरञ्जकाः सांस्कृतिकाः कार्यक्रमाः आयोज्यन्ते स्म। भारतदेशे अनेन कार्यक्रमेण सह गणतन्त्रदिवससमारोहाणां औपचारिकं समापनं भवति। मध्यप्रदेशे गणतन्त्रदिवससमारोहस्य समापनं एकोनत्रिंशतितमे जनवरीमासे भोपालस्थे मोतीलालनेहरूक्रीडांगणे “बीटिङ्ग् द रिट्रीट” समारोहस्य आयोजनं कृत्वा भविष्यति।
---------------
हिन्दुस्थान समाचार