मध्यप्रदेशस्य उज्जयिन्याम् अद्य वर्षस्य लघुतमदिने विज्ञानस्य परीक्षणं भविष्यति
- राष्ट्रियगणितदिवसे डोंगलानगरे भारतस्य वैदिकगणितपरम्परायां राष्ट्रियकार्यशाला आयोज्यते। भोपालम्, 22 दिसंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन यादवस्य दूरदर्शिन्या परिकल्पनया वैश्विकपटल पर उज्जयिन्याः डोंगलास्थिते अन्ताराष्ट्रिय-कालगण
डोंगला स्थित अंतरराष्ट्रीय कालगणना केंद्र


- राष्ट्रियगणितदिवसे डोंगलानगरे भारतस्य वैदिकगणितपरम्परायां राष्ट्रियकार्यशाला आयोज्यते।

भोपालम्, 22 दिसंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन यादवस्य दूरदर्शिन्या परिकल्पनया वैश्विकपटल पर उज्जयिन्याः डोंगलास्थिते अन्ताराष्ट्रिय-कालगणनाकेन्द्रे अद्य एकः ऐतिहासिकः अध्यायः संयोज्यते। वर्षस्य लघुतमदिने उत्तरायणस्य आरम्भावसरे च स्वयं मुख्यमंत्री अत्र उपस्थित्वा भारतीयविज्ञानस्य श्रेष्ठतां प्रत्यक्षतया अवलोकयिष्यति। मुख्यमंत्रीविशेषप्रयत्नैः निर्मिते अस्मिन् केन्द्रे सूर्यकिरणाः मकररेखायां लम्बवत् पतित्वा शङ्कुयन्त्रस्य माध्यमेन खगोलीयसत्यं प्रमाणयिष्यन्ति।

वस्तुतः मध्यप्रदेश विज्ञान-प्रौद्योगिकीपरिषदा राष्ट्रीयगणितदिवसे (२२ दिसम्बर) प्रदेशव्यापी रूपेण गणितस्य महत्त्वं रेखाङ्कयितुं विविधाः जन-जागरूकता-कार्यक्रमाः आयोज्यन्ते। अस्य मुख्यकार्यक्रमः उज्जयिनीजनपदे डोंगलास्थले भविष्यति। अत्र “भारतस्य वैदिकगणितपरम्परा” इति विषयके एकः राष्ट्रियकार्यशालाः आयोज्यते। अस्यां कार्यशालायां प्रदेशस्य देशस्य च प्रतिष्ठिताः विषयविशेषज्ञाः, शोधार्थिनः, शिक्षाविदः, अध्यापकाः च भागं ग्रहीष्यन्ति। अत्र वैदिकगणितस्य वैज्ञानिकता, आधुनिकगणितेन सह तस्य सम्बन्धः, शिक्षाक्षेत्रे तस्य अनुप्रयोगाः इत्यादिषु गम्भीरः विमर्शः भविष्यति। कार्यशालाकाले सहभागीजनाः सूर्यस्य उत्तरायणगमनस्य खगोलीयक्षणस्य साक्षिणोऽपि भविष्यन्ति, यत् भारतीयज्योतिष-गणित-खगोलविज्ञानस्य समृद्धपरम्परया सह प्रत्यक्षरूपेण सम्बद्धं एकं दुर्लभं प्रेरणादायकं च अनुभवं प्रदास्यति। अस्मिन् अवसर एव मुख्यमंत्री डॉ. यादव वैदिकगणितस्य प्राध्यापकैः शोधकर्तृभिश्च संवादं करिष्यति।

मुख्यमंत्री डॉ. मोहन यादवः स्वयमेव एतस्य विषये सूचनां प्रदाय अवदत् यत् उज्जयिनीजनपदस्य ऐतिहासिकं डोंगलास्थानं पुनः भारतीयज्ञानपरम्परायाः, खगोलविज्ञानस्य, गणितीयानुसन्धानस्य च केन्द्ररूपेण विकसितं क्रियते। डोंगला प्राचीनकाले एव कालगणना, सूर्यगतिः, पञ्चाङ्गनिर्माणं, गणना च इत्येषां महत्त्वपूर्णं केन्द्रम् आसीत्। अत्र कालगणना, ऋतुपरिवर्तनं, खगोलीयघटनानां च सूक्ष्मं सटीकं च अध्ययनं क्रियते स्म। सः अवदत् यत् राज्यसर्वकारः अस्य ऐतिहासिक-वैज्ञानिकविरासतस्य पुनर्जीवनाय निरन्तरं प्रयत्नं कुर्वन् अस्ति। डोंगलां गणना-खगोल-वैज्ञानिकचेतनाकेन्द्ररूपेण विकसितुं कृतः अयं प्रयासः प्रदेशस्य वैज्ञानिकपरिचयम् अधिकं सशक्तं करिष्यति।

जनसम्पर्काधिकारिणी जूही श्रीवास्तवा अवदत् यत् मध्यप्रदेश विज्ञान-प्रौद्योगिकीपरिषदा प्रदेशस्य प्रायः ३८ जनपदेषु १७०-अधिकेषु विश्वविद्यालयेषु, महाविद्यालयेषु, वैज्ञानिकसंस्थासु, स्वैच्छिकसंगठनेषु, विद्यालयेषु च गणित-जागरूकता-कार्यक्रमाः आयोज्यन्ते। एतेषु कार्यक्रमेषु व्याख्यानानि, प्रतियोगिताः, संवादसत्राणि, प्रदर्शन्यः च आयोजिताः भविष्यन्ति। विद्यार्थिनां साधारणजनानां च समीपे गणितस्य उपयोगिता, तार्किकचिन्तनं, वैज्ञानिकदृष्टिकोणश्च प्रेषयितुं स्वैच्छिकसंगठनेषु सक्रियभागीदारी अपि महत्त्वपूर्णां भूमिकां वहिष्यति।

उल्लेखनीयं यत् राष्ट्रीयगणितदिवसः २२ दिसम्बर-तिथौ महान् भारतीयगणितज्ञः श्रीनिवासरामानुजनस्य जयंतीनिमित्तं आचर्यते। अस्य उद्देश्यं युवेषु गणिते रुचिं वर्धयितुं, तार्किकं वैज्ञानिकं च दृष्टिकोणं विकसितुं, तथा च एतत् सन्देशं प्रदातुं यत् गणितं देशस्य वैज्ञानिक-तकनीकी-आर्थिकविकासस्य सशक्ता आधारशिला अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता