नेपालदेशे सर्वदलीय-सर्वकारनिर्माणस्य अभियाचना, जेन-जी-प्रदर्शनकारिणः आरक्षकनिग्रहणे
काठमांडूनगरम्, 22 दिसंबरमासः (हि.स.)। सर्वदलीय-सर्वकार-निर्माणस्य अभियाचनां कृत्वा मिराजढुंगाना सहिताः युवजनाः काठमाण्डू-नगरे मैतीघर-स्थले प्रदर्शनं कृतवन्तः। अस्मिन् प्रदर्शने रविकिरण हमालः, निकोलस भुसालः इत्यादयः अन्ये अपि युवजनाः सम्मिलिताः आसन्
काठमांडू में प्रदर्शन कर रहे जेन जी को नियंत्रण में लेती पुलिस


काठमांडूनगरम्, 22 दिसंबरमासः (हि.स.)। सर्वदलीय-सर्वकार-निर्माणस्य अभियाचनां कृत्वा मिराजढुंगाना सहिताः युवजनाः काठमाण्डू-नगरे मैतीघर-स्थले प्रदर्शनं कृतवन्तः। अस्मिन् प्रदर्शने रविकिरण हमालः, निकोलस भुसालः इत्यादयः अन्ये अपि युवजनाः सम्मिलिताः आसन्। प्रदर्शनकारिणः वदन्ति यत् सर्वदलीय-सर्वकारस्य गठनानन्तरमेव निर्वाचनं कर्तव्यम्। तैः हस्तेषु “जेन-जी-समूहस्य मागः निर्वाचनं न, सुशासनम् अस्ति” इति लिखितानि फलकानि धारितानि आसन्। अस्मिन् अवसरे मैतीघर-मण्डल-क्षेत्रात् आरक्षकैः रविकिरण हमालः सहितः पञ्च प्रदर्शनकारिणः निग्रहणे निगृहीताः।

प्रदर्शनकारिणः पुनः पुनः अवदन् यत् तेषां प्रमुखा मागः सर्वदलीय-सर्वकारस्य गठनम् एव अस्ति, तस्य अभावे निर्वाचनं स्वीकर्तुं न शक्यते। जेन-जी-समूहाः रविवासरे एव पत्रकार-सम्मेलनं कृत्वा सोमवासरात् सुशीला-कार्की-सर्वकारस्य विरुद्धं नियमित-प्रदर्शनस्य घोषणां कृतवन्तः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता