उत्तर प्रदेश विधानसभायां 24 सहस्रं अनुपूरकराजस्वं प्रस्तुतम्
लखनऊ , 22 दिसंबरमासः (हि.स.)। उत्तरप्रदेशविधानसभायाः शीतकालीनसत्रे सोमवासरे उत्तरप्रदेशस्य योगीआदित्यनाथनेतृत्वाधीना सर्वकारो वित्तीयवर्षस्य २०२५ २६ अनूपूरकं राजस्वे प्रस्तुतवती। अस्मिन् अनूपूरकराजस्वे राजस्वलेखायाः व्ययः अष्टादशसहस्रत्रिशतनवकोटि
उत्तर प्रदेश विधानसभा के शीतकालीन सत्र


लखनऊ , 22 दिसंबरमासः (हि.स.)।

उत्तरप्रदेशविधानसभायाः शीतकालीनसत्रे सोमवासरे उत्तरप्रदेशस्य योगीआदित्यनाथनेतृत्वाधीना सर्वकारो वित्तीयवर्षस्य २०२५ २६ अनूपूरकं राजस्वे प्रस्तुतवती। अस्मिन् अनूपूरकराजस्वे राजस्वलेखायाः व्ययः अष्टादशसहस्रत्रिशतनवकोटि त्रिंशत् लक्षरूप्यकाणि अस्ति तथा पूंजीलेखायाः व्ययः षट्सहस्रएकशतसप्तविंशत् कोटि अष्टषष्टिलक्षरूप्यकाणि वर्तन्ते।

वित्तीयवर्षस्य २०२५ २६ कृते प्रस्तावितस्य अस्य अनूपूरकबजटस्य परिमाणं मूलबजटस्य त्रयः दशांशत्रिशतप्रतिशतं भवति। वित्तीयवर्षस्य २०२५ २६ मूलबजटं अष्टलक्ष अष्टसहस्रकोटिमितानि रूप्यकाणि आसीत्। अद्य सदने राज्यस्य वित्तमन्त्री सुरेशखन्ना वित्तीयवर्षस्य २०२५ २६ कृते चतुर्विंशतिसहस्रचतुर्नवतिशत षण्णवतिलक्षरूप्यकाणां अनूपूरकं राजस्वं प्रस्तुतवान्।

अस्य अनूपूरकराजस्वस्य मुख्यं उद्देश्यं विद्यमानासु योजनासु अपर्याप्तप्रावधानानां पूर्तिः नूतनावश्यकतानां पूर्तिः च, तथा विकासकार्याणां अविरतं प्रवर्तनं भवति। अस्मिन् राजस्वे राजस्वव्ययार्थं अष्टादशसहस्रत्रिशतनवकोटि त्रिंशत् लक्षरूप्यकाणां तथा पूंजीगतव्ययार्थं षट्सहस्रएकशतसप्तविंशत् कोटि अष्टषष्टिलक्षरूप्यकाणां प्रावधानं कृतम्।

वर्तमानकाले उत्तरप्रदेशस्य सकलगृह्यराज्योत्पादः एकत्रिंशत् लक्षकोटिरूप्यकेभ्यः अधिकः इति अनुमान्यते। राज्यं राजस्वसरप्लसयुक्तं एव अस्ति, यत् उत्तरप्रदेशसरकारायाः दृढं वित्तीयप्रबन्धनं सूचयति। वित्तमन्त्री सुरेशखन्ना अवदत् यत् अनूपूरकबजटं विद्यमानबजटे अपर्याप्तराशेः पूर्तये तथा विकासयोजनानां वेगवर्धनाय आनीतम् अस्ति।

अनूपूरकराजस्वे केषाञ्चन प्रमुखविभागानां कृते प्रस्ताविताः राशयः एताः सन्ति

औद्योगिकविकासाय चतुर्सहस्रअष्टशतचतुसप्ततिशत कोटि रूप्यकाणि।

ऊर्जाक्षेत्राय चतुर्सहस्रपञ्चशतएकविंशतिशत कोटि रूप्यकाणि।

स्वास्थ्यक्षेत्राय त्रिसहस्रपञ्चशत कोटिमितानि रूप्यकाणि।

नगरविकासाय सप्तदशशत अष्टपञ्चाशत दशमलवपञ्चषष्टि कोटि रूप्यकाणि।

प्राविधिकशिक्षाय षट्शत् नवत्रिंशत दशमलव षण्णवतिशतकोटिमितानि रूप्यकाणि।

महिला बालविकासाय पञ्चशत पञ्चत्रिंशत कोटि रूप्यकाणि।

नेडा संस्थाय पञ्चशत कोटि रूप्यकाणि।

चिकित्साशिक्षाय चतुर्शत त्रिंशत कोटि रूप्यकाणि।

गन्ना चीनीमिलविभागाय चतुर्शत कोटि रूप्यकाणि।

---------------

हिन्दुस्थान समाचार