उत्तरप्रदेश-विधानसभा-सत्रम् – कोडीन-कफ-सिरप-प्रकरणे विपक्षी-सदस्यानां वाक्-आउट्, विरोध-प्रदर्शनम्
लखनऊ, 22 दिसम्बरमासः (हि.स.)। उत्तरप्रदेशस्य विधानसभायाः शीतकालीन-सत्रस्य द्वितीय-दिवसे समाजवादी-पक्षस्य सदस्याः सदनस्य कार्यवाही आरम्भमात्रेण एव सदनस्य वेल्-प्रदेशे आगत्य कोलाहलं कृतवन्तः। समाजवादी-पक्षस्य सदस्याः सदनात् वाक्-आउट् कृत्वा विधान-भव
उत्तर प्रदेश विधानसभा का शीतकालीन सत्र


लखनऊ, 22 दिसम्बरमासः (हि.स.)। उत्तरप्रदेशस्य विधानसभायाः शीतकालीन-सत्रस्य द्वितीय-दिवसे समाजवादी-पक्षस्य सदस्याः सदनस्य कार्यवाही आरम्भमात्रेण एव सदनस्य वेल्-प्रदेशे आगत्य कोलाहलं कृतवन्तः। समाजवादी-पक्षस्य सदस्याः सदनात् वाक्-आउट् कृत्वा विधान-भवन-परिसरे अपि विरोध-प्रदर्शनं कृत्वा स्वविरोधं प्रकटितवन्तः।

सोमवारे प्रातः 11 वादने विधानसभायाः सदनस्य कार्यवाही आरब्धा। तदनन्तरं सदने नेता-प्रतिपक्षः माताप्रसादपाण्डेयः कोडीन-कफ-सिरप-प्रकरणं उत्थापितवान्। उत्थापिते प्रकरणे सति समाजवादी-पक्षस्य सदस्याः कोलाहलं कुर्वन्तः वेल्-प्रदेशं यावत् आगतवन्तः। पश्चात् विधानसभाध्यक्षस्य आश्वासनेन ते स्वस्व-आसनानि उपविष्टवन्तः। अनन्तरं समाजवादी-पक्षस्य सदस्याः सदनात् वाक्-आउट् कृतवन्तः।

ततः समाजवादी-पक्षस्य सदस्याः विधान-भवन-परिसरे स्थितायाः चौधरी-चरण-सिंहस्य प्रतिमायाः समक्षं विरोध-प्रदर्शनं कृतवन्तः। कोडीन-कफ-सिरप-प्रकरणं सहितं अन्येषु विषयेषु अपि समाजवादी-पक्षस्य सदस्याः सर्वकारं लक्ष्यीकृत्य तीव्रम् उद्घोषणं कृतवन्तः। संसदीय-कार्य-मन्त्री सुरेश-खन्ना अवदत् यत् विपक्षः अनुचितरीत्या जनान् भ्रमयति। उत्तरप्रदेशे कोडीन-कफ-सिरपस्य सेवनात् एकस्यापि मृत्युः न अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता