विकसित भारतस्य निर्माणे सामूहिक प्रयासः आवश्यकः -उपराष्ट्रपतिः
नवदिल्ली, 22 दिसंबरमासः (हि.स.)। उपराष्ट्रपतिः सीपी राधाकृष्णनः अवदत् यत् आत्मनिर्भरस्य विकसितस्य च भारतस्य निर्माणार्थं सामूहिकप्रयासाः अनिवार्याः सन्ति, अस्मिन् च कार्ये भारतीयरक्षालेखासेवायाः महत्त्वपूर्णा भूमिका अस्ति। तेन उक्तं यत् रक्षासेवाना
उपराष्ट्रपति सी. पी. राधाकृष्णन सोमवार को आईडीएएस के 2023 और 2024 बैच के प्रशिक्षु अधिकारियों के कार्यक्रम में शामिल हुए


नवदिल्ली, 22 दिसंबरमासः (हि.स.)। उपराष्ट्रपतिः सीपी राधाकृष्णनः अवदत् यत् आत्मनिर्भरस्य विकसितस्य च भारतस्य निर्माणार्थं सामूहिकप्रयासाः अनिवार्याः सन्ति, अस्मिन् च कार्ये भारतीयरक्षालेखासेवायाः महत्त्वपूर्णा भूमिका अस्ति। तेन उक्तं यत् रक्षासेवानां वित्तीयसंसाधनानां कुशलं प्रबन्धनं देशस्य सुरक्षासामर्थ्यं प्रत्यक्षतया प्रभावितं करोति।

भारतीयरक्षालेखासेवायाः २०२३ २०२४ इति वर्षयोः सत्रयोः प्रशिक्षु-अधिकारिणः सम्बोधयन् उपराष्ट्रपतिः अवदत् यत् सिविलसेवकानां कर्तव्यं केवलं ज्ञानं न, अपि तु चरित्रं विनयः संवेदनशीलता च स्वकीयकार्यव्यवहारे समावेशयितुम्। तेन अधिकारिणः सेवा भावं कर्तव्यबोधं च स्वजीवनस्य मूलमन्त्रं कर्तुं आहूताः।

उपराष्ट्रपतिः अवदत् यत् देशस्य चतुर्दशशतकोटि नागरिकानां सेवायाः अवसरः सौभाग्यं एव न, अपि तु महान् दायित्वं अपि अस्ति। तेन उक्तं यत् रक्षालेखाविभागस्य पञ्चसप्तत्यधिकद्विशतवर्षाणाम् अधिका गौरवशालिनी परम्परा अस्ति, तथा च एषः भारतसरकारस्य प्राचीनतमेषु विभागेषु एकः अस्ति।

वर्षे २०४७ विकसितभारतलक्ष्यस्य प्राप्तौ सिविलसेवकानां भूमिका अत्यन्तं महत्त्वपूर्णा भविष्यति इति तेन प्रतिपादितम्। समावेशीविकासः अन्तिमसीमापर्यन्तं लाभप्रदानं च अमृतकालस्य प्रमुखं लक्ष्यं अस्ति, तस्य साकारकरणे युवाधिकारीणां ऊर्जा नवाचारश्च निर्णायकां भूमिकां निर्वहिष्यतः।

उपराष्ट्रपतिः अपि अवदत् यत् सशस्त्रबलानां परिचालनतत्परतां रक्षितुं विवेकपूर्णं वित्तीयप्रबन्धनं अनिवार्यम् अस्ति। सार्वजनिकधनस्य प्रबन्धने ईमानदारी पारदर्शिता सतर्कता उत्तरदायित्वं च उच्चतममानदण्डेषु स्वीकर्तव्यानि इति तेन बलं दत्तम्।

शीघ्रं परिवर्तमाने तन्त्रज्ञानयुगे सततक्षमतानिर्माणस्य आवश्यकता इति प्रतिपादयन् तेन आईजीओटी कर्मयोगी इत्यादिप्लेटफॉर्मानां प्रभावी उपयोगाय परामर्शः दत्तः। तेन उक्तं यत् आधुनिकतन्त्रज्ञानानां प्रति अनुकूलनं नवाचारः नैतिकप्रशासनं सहानुभूतिपूर्णा दृष्टिः च विकसितभारतयात्रायां सिविलसेवकानां परिचायकाः भविष्यन्ति।

अस्मिन् कार्यक्रमे रक्षासचिवः राजेशकुमारसिंहः रक्षालेखामहानियन्त्रकः विश्वजीतसहायः वित्तीयसलाहकारः रक्षासेवाः राजकुमारअरोड़ा इत्यादयः अन्ये च वरिष्ठाधिकारिणः उपस्थिताः आसन्।

------------

हिन्दुस्थान समाचार