डाक-महामेलने सह सम्मानसमारोहे २९ कर्मिणः सम्मानिताः।
सहरसा, 23 दिसंबरमासः (हि.स.)। ग्रामीण-डाकगृहेषु प्रदीयमानानां सेवासुविधानां गुणवत्तावर्धनाय सहरसा-प्रमण्डलस्य अन्तर्गत-शाखा-डाकगृहेषु कार्यप्रगतेः सम्यक् मूल्याङ्कनार्थं पूर्वी-प्रक्षेत्रस्य भागलपुर-डाक-महाध्यक्षेन मनोजकुमारमहाशयेन मङ्गलवासरे समीक्
डाक महामेला


सहरसा, 23 दिसंबरमासः (हि.स.)। ग्रामीण-डाकगृहेषु प्रदीयमानानां सेवासुविधानां गुणवत्तावर्धनाय सहरसा-प्रमण्डलस्य अन्तर्गत-शाखा-डाकगृहेषु कार्यप्रगतेः सम्यक् मूल्याङ्कनार्थं पूर्वी-प्रक्षेत्रस्य भागलपुर-डाक-महाध्यक्षेन मनोजकुमारमहाशयेन मङ्गलवासरे समीक्षात्मक-सभा आयोजिताभवत्। अस्यां सभायां डाकगृहसाध्यमेन डाक-जीवन-बीमा, ग्रामीण-डाक-जीवन-बीमा, सुकन्या-समृद्धि-योजना, लघु-बचत-योजना, आवर्ती-निक्षेप-योजना, पी.आइ.एल. (PLI), खातानां उद्घाटनम्, शीघ्र-डाक (स्पीड-पोस्ट) इत्यादीनां विविध-योजनानां निर्धारित-लक्ष्य-पूर्तये आवश्यकाः दिशा-निर्देशाः प्रदत्ताः।

एताभिरेव योजनाभिः सम्बन्धितेषु कार्येषु उत्कृष्ट-प्रदर्शनं कृतवन्तः कर्मिणः पुरस्कृताः सम्मानिताश्च। ये तु कर्मिणः समये निर्धारित-लक्ष्यं प्राप्तुं न शक्ताः, तेषां प्रति आवश्यकाः निर्देशाः दत्ताः; अपि च कार्यापूरणकर्तृणां विरुद्धं अनुशासनात्मक-कार्यानुष्ठानस्य चेतावनी अपि प्रदत्ता।

डाक-महाध्यक्षः मनोजकुमारः अवदत् यत् “डाक-सेवा जन-सेवा” इति भावनां सुदृढीकर्तुं डाक-प्रभागेन डाक-महामेला-सह-सम्मान-समारोहः आयोजितः। अस्मिन् कार्यक्रमे सहरसा-प्रभागस्य अन्तर्गत-सर्वेषां शाखा-डाकगृहेषु कार्यप्रगतेः सम्यक् समीक्षा कृता, तथा उत्कृष्ट-कार्य-कर्तॄन् कर्मचारिणः ग्राम-डाक-सेवकांश्च सम्मान्य पुरस्कारैः अलङ्कृताः। अवसरेऽस्मिन् स्व-स्व-क्षेत्रेषु विशेष-उपलब्धिं प्राप्तवन्तः डाक-कर्मिणः पोस्टमास्टर-जनरल-महाशयेन अपि पुरस्कृताः। तदनन्तरं सामान्य-नागरिकेभ्यः सुकन्या-समृद्धि-योजना, कुटुम्बस्य आर्थिक-सुरक्षायै पिएलआई एवं आरपिएलआई योजनाः, इंडिया-पोस्ट-पेमेंट्स-बैंक-सेवाः, शीघ्र-डाक, पञ्जीकृत-डाक, पार्सल, ई.एम.एस., आधार-सेवाः तथा विविधाः डाक-बचत-योजनाः इत्येतासां सम्यक् सूचना प्रदत्ता।

सहरसा-डाक-प्रभागस्य अधीक्षकः सहरसा-नगरस्य समीपवर्तिनां च सर्वेषां नागरिकान् आह्वयामास यत् ते भविष्येऽपि स्व-कुटुम्ब-जनैः सह एतादृशेषु मेलासु सहभागीभूत्वा डाक-विभागस्य आधुनिक-पारम्परिक-सेवानां अधिकतमं लाभं गृह्णीयुः। कार्यक्रमस्य सञ्चालनं प्रशान्तकुमारः सिद्धार्थगौतमश्च अकरोताम्। अस्मिन् अवसरे निरीक्षकाः रामविनयः, गोदामः, मनीषकुमारः, अजीतकुमारः, अरुणकुमारः इत्यादयः अन्ये च उपस्थिताः आसन्। उल्लेखनीयं यत् डाक-महासम्मेलने सहरसा-जनपदात् चतुर्-सहस्र अधिकोषानां सङ्ग्रहः कृतः। अपि च विविध-योजनासु उत्कृष्ट-कार्य-कर्तॄणां २९ कर्मिणां पुरस्कारैः सम्मानं कृतम्। डाक-महाध्यक्षेन दिव्याङ्ग-व्यक्तेः द्वारा कृतं सर्वाधिकं कार्यं दृष्ट्वा सः विशेषतया पुरस्कृतः सम्मानितश्च, अन्येभ्यः कर्मिभ्यश्च तस्मात् प्रेरणां ग्रहीतुम् आवाहनं कृतम्।

हिन्दुस्थान समाचार / अंशु गुप्ता