Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 23 दिसंबरमासः (हि.स.)।
असमराज्यस्य मुख्यमन्त्री डॉ हिमन्त बिस्व सरमा मङ्गलवासरे एकशरण-भागवती-समाजस्य संस्थापकस्य आचार्यस्य इलारामदासबापस्य जयन्त्यवसरे तस्मै भावपूर्णां श्रद्धाञ्जलिं अर्पितवान्। मुख्यमन्त्री स्वीयसामाजिकमाध्यम-सन्देशे आचार्य इलारामदासस्य आध्यात्मिकं सामाजिकं सांस्कृतिकं च योगदानं स्मृत्वा तं विभेदमुक्त-समाज-निर्माणस्य अग्रदूतं निरूपितवान्।
डॉ हिमन्त बिस्व सरमा अवदत् यत् आचार्य इलारामदासबापः महापुरुषस्य श्रीमन्तशंकरदेवस्य तथा श्रीश्रीमाधवदेवस्य धार्मिकदर्शनस्य कला-संस्कृतेश्च एकनिष्ठः अनुयायी आसीत्। सः स्वकीयं सम्पूर्णं जीवनं आध्यात्मिक-चेतनाया माध्यमेन समाजे समरसतायाः एकतायाश्च स्थापनायै समर्पितवान्।
मुख्यमन्त्री आचार्य इलारामदासं महान् वैष्णवविद्वान् विश्वबन्धुत्वस्य च प्रवर्तकः इति वर्णयित्वा अवदत् यत् एकशरण-भागवती-समाजस्य माध्यमेन तेन असमस्य पर्वतीयान् मैदानीप्रदेशांश्च एकतायाः सूत्रे बद्धुं निरन्तरं प्रयत्नः कृतः।
आचार्य इलारामदासबापस्य जयन्त्यवसरे मुख्यमन्त्री तस्मै शतशः नमनं कृत्वा गहनां श्रद्धां सम्मानं च व्यक्तवान्।
------------------
हिन्दुस्थान समाचार