भूपेश को पहले इतिहास पढ़ना चाहिए : व‍िधायक अजय चंद्राकर
रायपुरम्, 23 दिसंबरमासः (हि.स.)। छत्तीसगढराज्यस्य पूर्वमुख्यमन्त्री भूपेशः दुर्गनगरे आयोजिते राज्यस्तरीयसम्मेलने वक्तव्यं दत्तवान् यत् मुगलशासनकालेऽपि हिन्दवः कदापि संकटे न आसन्, किन्तु भाजपा आरएसएसश्च भयप्रसारणं कृत्वा निर्वाचनं जयतः। अस्मिन् वक
व‍िधायक अजय चंद्राकर


रायपुरम्, 23 दिसंबरमासः (हि.स.)।

छत्तीसगढराज्यस्य पूर्वमुख्यमन्त्री भूपेशः दुर्गनगरे आयोजिते राज्यस्तरीयसम्मेलने वक्तव्यं दत्तवान् यत् मुगलशासनकालेऽपि हिन्दवः कदापि संकटे न आसन्, किन्तु भाजपा आरएसएसश्च भयप्रसारणं कृत्वा निर्वाचनं जयतः। अस्मिन् वक्तव्ये विधायकः अजयः चन्द्राकरः आक्रमणं कुर्वन् अवदत् यत् भूपेशः प्रथमं इतिहासं पठेत्, ततः एव वक्तव्यं दद्यात्। तथ्यसन्दर्भविहीनवक्तव्यदानं कांग्रेसपक्षस्य पुरातनी आदतिः अस्ति।

सः अपि अवदत् यत् फारूक अब्दुल्ला, मोहम्मद अली जिन्ना तथा लियाकत अली खान इत्येतेषां कति पीढीनां पूर्वं धर्मान्तरणं जातं, तथा केषु परिस्थितिषु तत् अभवत् इति विचारणीयम्। सः अवदत् यत् एतादृशानां अन्येषां उदाहरणानां दानं अपि कर्तुं शक्नोति। कश्मीरप्रदेशस्य जनसांख्यिकस्थितिः किमासीत्, कथं च सा परिवर्तिता इति अध्ययनं कृत्वा एव वादः करणीयः। तथ्यसन्दर्भविहीनवक्तव्यदानं कांग्रेसपक्षस्य पुरातनी आदतिः एव इति सः पुनरपि उक्तवान्। विधायकः अजयः चन्द्राकरः कांग्रेसनेतॄणां प्रति उपदेशं दत्तवान् यत् ते प्रथमं भारतस्य इतिहासं पठेयुः।

हिन्दुस्थान समाचार