चक्रवातप्रभावितं श्रीलङ्कादेशाय ४५० मिलियन डॉलर इत्यस्य सहायतां करिष्यति भारतदेशः
कोलंबो, 23 दिसंबरमासः (हि.स.)। भारतीयविदेशमन्त्री डॉ॰ एस् जयशङ्करः मङ्गलवासरे अत्र चक्रवातदित्वा इत्यनेन प्रभावितस्य श्रीलङ्कादेशस्य राष्ट्रपतिः अनुराकुमारदिसानायकेन सह साक्षात्कृतवान्। सः प्रधानमन्त्री नरेन्द्रमोदीतः राष्ट्रपतये अनुराय सन्देशं प्
श्रीलंका के राष्ट्रपति को शुभकामना संदेश देते विदेश मंत्री


कोलंबो, 23 दिसंबरमासः (हि.स.)।

भारतीयविदेशमन्त्री डॉ॰ एस् जयशङ्करः मङ्गलवासरे अत्र चक्रवातदित्वा इत्यनेन प्रभावितस्य श्रीलङ्कादेशस्य राष्ट्रपतिः अनुराकुमारदिसानायकेन सह साक्षात्कृतवान्। सः प्रधानमन्त्री नरेन्द्रमोदीतः राष्ट्रपतये अनुराय सन्देशं प्रदत्तवान् तथा चक्रवातपीडितेन पडोसीदेशेन सह भारतस्य एकजुटतां प्रकटितवान्।

विदेशमन्त्री एक्स् माध्यमेन एतद्विषये सूचनां सार्वजनिकीकृतवान्। सः अवदत् यत् भारतः ‘ऑपरेशन सागर बन्धु’ इत्यस्य अन्तर्गतं स्वस्य प्रथमप्रतिक्रियाकार्यक्रमं अग्रे नयन् श्रीलङ्कायै पञ्चचत्वारिंशत् कोटि अमेरिकी डॉलरपरिमितं (45 कोटि) पुनर्निर्माणपैकेजं घोषयति। भारतः स्वीयैः सभ्यतागतसम्बन्धैः, ‘नेबरहुड् फर्स्ट्’ नीत्या तथा ‘विजन महासागर’ इत्याधारेण श्रीलङ्कादेशेन सह दृढतया स्थितः अस्ति।

भारतप्रदत्ते पैकेजे मार्ग, रेलमार्ग तथा सेतुसम्पर्कस्य पुनर्वासः पुनःस्थापनं च; पूर्णतया विनष्टानां आंशिकरूपेण क्षतिग्रस्तानां गृहाणां निर्माणं; विशेषतया चक्रवातेन क्षतिग्रस्तयोः स्वास्थ्यशिक्षाक्षेत्रयोः सहाय्यं; कृषिक्षेत्रे अल्पकालिकमध्यमकालिककमीपरिहारः; तथा आपदाप्रतिक्रियायाः आपदातत्परतायाश्च संवर्धनं समाविष्टम् अस्ति।

एतस्मिन् अवसरे विदेशमन्त्री राष्ट्रपतिना विदेशमन्त्रिणा च सह उत्तरीप्रान्ते किलिनोच्चीमण्डले स्थितं शतविंशत् पादपरिमितं द्विलेनीयम् बेलीसेतुम् उद्घाटितवान्। एषः सेतुः चक्रवातदित्वया अत्यन्तं प्रभावितेषु प्रदेशेषु एकस्मिन् स्थितः अस्ति।

विदेशमन्त्री श्रीलङ्कादेशस्य प्रधानमन्त्री हरिणी अमरसूरियया अपि साक्षात्कृतवान् तथा भारततः चक्रवातदित्वानन्तरं श्रीलङ्कादेशस्य पुनर्निर्माणे अटूटप्रतिबद्धतायाः आश्वासनं दत्तवान्। भारतप्रस्तावितं पुनर्निर्माणपैकेजं उभयोरपि राष्ट्रयोः मध्ये विद्यमानानां गहनसम्बन्धानां प्रतीकम् अस्ति।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता