Enter your Email Address to subscribe to our newsletters

— ग्राम पानवाे सिकल-सेल्-रोगिणां कृते प्रमाणपत्राणि, क्षय-रोगिणाम् कृते आहारपुटस्य च वितरणं करिष्यति।
भोपालम्, 23 दिसंबरमासः (हि.स.)। मध्यप्रदेशस्य राज्यपालः मंगुभाई पटेलः अद्य मङ्गलवासरे खरगोनजनपदस्य प्रवासे भविष्यति। सः अत्र कसरावद-प्रखण्डस्य पानवाग्रामे आयोजिते कार्यक्रमे सहभागितां करिष्यति। कार्यक्रमे स्वास्थ्य-विभागस्य विविध-योजनानां अन्तर्गतं सिकल-सेल्-रोगिणां कृते प्रमाणपत्राणि, क्षय-रोगिणां कृते आहारपुटस्य च वितरणं करिष्यति। तथा च प्रधानमन्त्री-आवास-योजनासहितं विविध-शासकीय-योजनानां हितग्राहिभ्यः हितलाभ-वितरणम् अपि करिष्यति।
कार्यक्रमस्य नोडल्-अधिकारी जिला-पञ्चायत-कार्यकारी-अधिकारी (सीईओ) आकाश् सिंहः अवदत् यत् राज्यपालः पटेलः अपराह्णे १२ वादने पानवा-ग्रामे आयोजिते कार्यक्रमे उपस्थितः भविष्यति। सः कार्यक्रम-स्थले स्वास्थ्य-शिविरस्य तथा एनआरएलएम्-समूहद्वारा स्थापितायाः प्रदर्शिन्याः अवलोकनम् अपि करिष्यति। ततः अनन्तरं राज्यपालः पटेलः ग्राम-खलबुजुर्ग-निवासिन्याः प्रधानमन्त्री-आवास-योजनायाः हितग्राहिण्याः अन्नुबाई-मेवाड़ेः नवनिर्मिते आवासे भोजनं ग्रहिष्यति। राज्यपालः पटेलः सायं ५:१० वादने महेश्वर-घाटे आयोजितायां नर्मदा-आरत्यां सहभागितां करिष्यति। सः रात्रि-विश्रामं महेश्वरे सर्किट्-हाउस्-स्थाने करिष्यति।
राज्यपालः मंगुभाई पटेलः अनन्तर-दिने २४ दिसम्बर् तमे दिनाङ्के प्रातः बुरहानपुरं प्रति प्रस्थानं करिष्यति। सः बुरहानपुर-जनपदस्य दावटिया-ग्रामस्य भ्रमणं करिष्यति तथा छात्रैः हितग्राहिभिः सह संवादं करिष्यति। तदनन्तरं सः बोरी-बुजुर्ग-स्थले सीएम्-राईज्-विद्यालये आयोजिते कार्यक्रमे भागं ग्रहीष्यति। कार्यक्रमानन्तरं सः भोपालं प्रति प्रस्थानं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता