Enter your Email Address to subscribe to our newsletters


उज्जैनम्, 23 दिसंबरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिनीनगरे सोमवासरे प्रदेशस्य उपमुख्यमंत्री राजेन्द्रःशुक्लः ज्योतिर्लिङ्गभगवतः महाकालेश्वरस्य भस्म-आरत्याः दर्शनलाभं प्राप्तवान्। दर्शनानन्तरं महाकालेश्वरमन्दिर-प्रबन्ध-समितेः पक्षतः सहायकप्रशासकः प्रतीकः द्विवेदी श्री-शुक्ल-महोदयस्य स्वागतं सम्मानं च अकरोत्।
न्यायमूर्तिः पञ्चोली महाकाल-दर्शनं कृतवान्। उच्चतम-न्यायालयस्य न्यायमूर्तिः विपुलः मनुभाई पञ्चोली सोमवासरे प्रातः मध्यप्रदेशस्य उज्जयिनीनगरे भगवतः महाकालेश्वरस्य भस्म-आरत्याः दर्शनं कृतवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता