केन्द्रीयमन्त्री नड्डा अद्य मध्यप्रदेशस्य प्रवासे अस्ति
भोपालम्, 23 दिसंबरमासः (हि.स.)। केन्द्रीयस्वास्थ्य-परिवारकल्याणमन्त्री तथा भारतीयजनतादलस्य अध्यक्षः जे. पी. नड्डा अद्य मध्यप्रदेशस्य प्रवासे भविष्यति। सः अत्र द्वयोः जनपदयोः — बैतूल-धार-जनपदयोः — सार्वजनिक-निजी-सहभागिता (पीपीपी) प्रतिदर्शे निर्मीय
अध्यक्ष जगत प्रकाश नड्डा इंदौर एयरपोर्ट पर


भोपालम्, 23 दिसंबरमासः (हि.स.)। केन्द्रीयस्वास्थ्य-परिवारकल्याणमन्त्री तथा भारतीयजनतादलस्य अध्यक्षः जे. पी. नड्डा अद्य मध्यप्रदेशस्य प्रवासे भविष्यति। सः अत्र द्वयोः जनपदयोः — बैतूल-धार-जनपदयोः — सार्वजनिक-निजी-सहभागिता (पीपीपी) प्रतिदर्शे निर्मीयमानानां वैद्यकीय-महाविद्यालयानां भूमिपूजनं करिष्यति। अस्मिन् अवसरे मुख्यमन्त्री डॉ. मोहनयादवः अपि उपस्थितः भविष्यति।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् प्रदेशे सार्वजनिक-निजी-सहभागिता-प्रतिदर्शे चत्वारः वैद्यकीय-महाविद्यालयाः सज्जीकर्तुं निश्चयः कृतः। एतेषु धार-जनपदे, बैतूल-जनपदे च केन्द्रीय-स्वास्थ्य-परिवार-कल्याण-मन्त्री जे. पी. नड्डा सार्वजनिक-निजी-सहभागिता-प्रारूपे निर्मीयमानयोः द्वयोः वैद्यकीय-महाविद्यालययोः भूमिपूजनं, अन्येषां विकास-कार्याणां च भूमिपूजनं लोकार्पणं च करिष्यति। कार्यक्रमे विधायकगणाः अन्ये च सम्मानीयाः जनप्रतिनिधयः अपि उपस्थिताः भविष्यन्ति।

मुख्यमन्त्री अवदत् यत् केन्द्रीय-मन्त्री नड्डा पूर्वाह्णे ११:५० वादने धार-जनपदे वैद्यकीय-महाविद्यालयस्य भूमिपूजनं तथा अन्य-विकास-कार्याणां लोकार्पणं कृत्वा बैतूलं प्रति प्रस्थानं करिष्यति। नड्डा अपराह्णे २:४५ वादने बैतूल-जनपद-मुख्यालयस्थिते आरक्षक-मैदाने वैद्यकीयमहाविद्यालयस्य तथा अन्य-विकास-कार्याणां भूमिपूजनं लोकार्पणं च करिष्यति। सार्वजनिक-निजी-सहभागिता-प्रारूपे स्वीकृतस्य वैद्यकीय-महाविद्यालयस्य शिलान्यास-भूमिपूजन-अवसरे स्वास्थ्य-शिविरस्य आयोजनम् अपि विधास्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता