प्रधानमन्त्री नरेन्द्रमोदी कृषकाणां महत्त्वे विषये संस्कृतसुभाषितं सार्वजनिकं कृतवान्
नवदेहली, 23 दिसंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य कृषकाणां महत्त्वे विषये एकं संस्कृत-सुभाषितं सार्वजनिकं कृतवान्। तेन उक्तं यत् समाजस्य अस्तित्वं कृषकैः आधृतं वर्तते, तथा कृषकानां विना जीवनस्य कल्पना अपि सम्भवः नास्ति। प्रधानमन्त्री
प्रधानमन्त्री नरेन्द्रमोदी कृषकाणां महत्त्वे विषये संस्कृतसुभाषितं सार्वजनिकं कृतवान्


नवदेहली, 23 दिसंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य कृषकाणां महत्त्वे विषये एकं संस्कृत-सुभाषितं सार्वजनिकं कृतवान्। तेन उक्तं यत् समाजस्य अस्तित्वं कृषकैः आधृतं वर्तते, तथा कृषकानां विना जीवनस्य कल्पना अपि सम्भवः नास्ति।

प्रधानमन्त्रीणाऽएक्स् इति सामाजिक-माध्यमे एतत् संस्कृत-सुभाषितं सार्वजनिकं कृतम्—सुवर्ण-रौप्य-माणिक्य-वसनैरपि पूरिताः।तथापि प्रार्थयन्त्येव कृषकान् भक्ततृष्णया।।

अस्य सुभाषितस्य अर्थः अयम् अस्ति यत् यद्यपि कस्यचित् पुरुषस्य समीपे सुवर्णं, रौप्यं, माणिक्यं तथा उत्तमानि वसनानि इत्यादयः सर्वाः भौतिक-सम्पदाः स्युः, तथापि भोजनार्थं सः कृषकैः एव आश्रितः भवति।---------------

हिन्दुस्थान समाचार / अंशु गुप्ता