केन्द्रीय-मन्त्री पीयूषगोयलः अद्य चेन्नई-नगरे प्रवासे, पलानीस्वामिना सह विचारविमर्शं करिष्यति
चेन्नईनगरम्, 23 दिसंबरमासः (हि.स.)। तमिलनाडु, पुड्डुचेरी, असम, पश्चिम-बङ्गाल तथा केरलराज्येषु आसन्न-निर्वाचनानां दृष्ट्या भारतीय-जनता-दलस्य (भाजपा) पूर्वसिद्धता आरब्धा अस्ति। तमिलनाडुराज्यस्य भाजपानिर्वाचनप्रभारी तथा केन्द्रीय-उद्योगवाणिज्यमन्त्री
पीयूष गोयल आज चेन्नई आ रहे हैं: एडप्पादी पलानीस्वामी के साथ विचार-विमर्श


चेन्नईनगरम्, 23 दिसंबरमासः (हि.स.)। तमिलनाडु, पुड्डुचेरी, असम, पश्चिम-बङ्गाल तथा केरलराज्येषु आसन्न-निर्वाचनानां दृष्ट्या भारतीय-जनता-दलस्य (भाजपा) पूर्वसिद्धता आरब्धा अस्ति। तमिलनाडुराज्यस्य भाजपानिर्वाचनप्रभारी तथा केन्द्रीय-उद्योगवाणिज्यमन्त्री पीयूषगोयलः अद्य चेन्नईनगरस्य प्रवासे भविष्यति। भाजपया विधिसंसदीयकार्य-राज्यमन्त्री अर्जुनराममेघवालः तथा नागरिकविमाननराज्यमन्त्री मुरलीधरः मोगलः सह-निर्वाचन-प्रभारिणौ नियुक्तौ।

केन्द्रीय-मन्त्री गोयलः अद्य अत्र प्रातः ११:३० वादने राज्य-भाजपा-कार्यालये प्रदेशाध्यक्षेन नायर् नागेन्द्रेण अन्यैः पदाधिकारिभिः सह चर्चां करिष्यति। अस्याः सभायाः अनन्तरं सः राज-अन्नामलैपुरम्-स्थितं स्टार्-होटेलं गमिष्यति। तत्र ग्रीनवे-रोड्-स्थिते ऑल्-इण्डिया-अन्ना-द्रविड-मुन्नेत्र-कडगम्-पक्षस्य महासचिवेन एडप्पाडी-पलानीस्वामिना सह स्थानविभाजन-विषये प्रारम्भिकं संवादं करिष्यति। पलानीस्वामिनः आवासे भोज-समारोहस्य आयोजनम् अपि कृतम् अस्ति। गोयलः सायंकाले प्रदेशस्य राज्यपालम् आर्. एन्. रविम् अपि मेलितुं शक्नोति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता