Enter your Email Address to subscribe to our newsletters

नवदेहली, 23 दिसंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मु उक्तवती यत् राष्ट्रिय-सुरक्षा आर्थिक-निवेशस्य तथा विकासस्य प्रमुखेषु प्रेरक-कारकेषु एकं भवति, तथा च नागरिकानां सक्रिय-सहभागितां विना एकविंशतितमे शताब्दे वर्तमानाभ्यः जटिलाभ्यः सुरक्षा-आव्हानेभ्यः प्रभावी-रीत्या न निवारणं कर्तुं शक्यते। सा विशेषतया अवदत् यत् नागरिक-कल्याणं तथा जन-सहभागितां केन्द्रे स्थापयित्वा एव सुरक्षितस्य, समृद्धस्य च विकसित-भारतस्य निर्माणं सम्भवम्। राष्ट्रपतिः मङ्गलवासरे अत्र आयोजितं इण्टेलिजेन्स-ब्यूरो (आईबी) शताब्दी-एण्डोमेंट-व्याख्यानं “जन-केन्द्रितं राष्ट्रियसुरक्षा: विकसित-भारतस्य निर्माणे सामुदायिक-सहभागिता” इति विषये सम्बोधितवती। सा अवदत् यत् स्वातन्त्र्यानन्तरकालात् इण्टेलिजेन्स-ब्यूरो देशस्य आन्तरिक-सुरक्षायाः सुनिश्चितिकरणे, जनतायाः रक्षणे, तथा भारतस्य एकतायाः अखण्डतायाः च सुदृढीकरणे महत्त्वपूर्णां प्रशंसनीयां च भूमिकां निर्वहति। एतत् देशस्य गौरवस्य विषयः इति अपि सा अवदत्।
राष्ट्रपतिः उक्तवती यत् अयं विषयः वर्तमानकाले एव न, अपि तु भविष्ये अपि अत्यन्तं प्रासङ्गिकः अस्ति। सा एतस्मिन् विषये बलं दत्तवती यत् राष्ट्रिय-सुरक्षा केवलं सर्वकारस्य वा सुरक्षा-संस्थानाम् उत्तरदायित्वं न, अपि तु प्रत्येकं नागरिकस्य कर्तव्यं भवति। सतर्काः जागरूकाः च नागरिकाः सुरक्षा-संस्थानाम् प्रयासान् दृढं समर्थनं दातुं शक्नुवन्ति। यदा नागरिकाः समुदाय-रूपेण संगठिताः कार्यं कुर्वन्ति, तदा तेषु असाधारणः समन्वयः प्रभावः च जायते।
सा अवदत् यत् भारतीय-संविधाने निर्दिष्टेषु मौलिक-कर्तव्येषु अनेकानि राष्ट्रिय-सुरक्षया प्रत्यक्षतया सम्बद्धानि सन्ति। छात्राणां, अध्यापकानां, माध्यम-संस्थाः, निवासी-कल्याण-संघाः, नागरिक-समाज-संस्थाः तथा अन्येषां सामाजिक-समूहाणां भूमिका एतेषां कर्तव्याणां प्रचार-प्रसारे अत्यन्तं महत्त्वपूर्णम् अस्ति।
राष्ट्रपतिः अवदत् यत् जन-सहभागिता राष्ट्रिय-सुरक्षां सुदृढां करोति। देशे बहूनि उदाहरणानि सन्ति, यत्र सतर्क-नागरिकैः प्रदत्ताभिः सूचनाभिः गम्भीर-सुरक्षा-संकटानां निवारणे सहायता प्राप्ता। राष्ट्रिय-सुरक्षायाः आधुनिक-अवधारणायां जनतां केन्द्रे स्थापनीयम्। नागरिकाः केवलं घटनानां दर्शकाः न भवन्तु, अपि तु स्वस्य परिवेशे ततोऽपि परे च क्षेत्रेषु सुरक्षायां सक्रिय-भागीदाराः भवन्तु। “जन-भागीदारी” जन-केन्द्रित-सुरक्षायाः आधारशिला अस्ति। सा अवदत् यत् आरक्षक-विभागः तथा आन्तरिक-सुरक्षा-संस्थाः सेवाभावेन कार्यं कुर्वन्तु। जन-विश्वासस्य अर्जनं जनकेन्द्रितराष्ट्रियसुरक्षारणनीतेः पूर्व-नियमः अस्ति। विश्वासं विना सामुदायिक-सहभागिता न सम्भवति।
राष्ट्रपतिः अवदत् यत् भारतः अद्य बहुआयामिकाः सुरक्षा-चुनौतयः सम्मुखीकुर्वन् अस्ति। सीमाक्षेत्रेषु गतिरोधः, आतंकवादः, उग्रवादः, अलगाववादः, सांप्रदायिक-कट्टरता च पारम्परिकाः सुरक्षा-चिन्ताः सन्ति। एतैः सह गतवर्षेषु साइबर-अपराधः गम्भीरः शीघ्रं वर्धमानः च आव्हान-रूपेण उद्भूतः अस्ति। सा अवदत् यत् देशस्य कस्मिन्नपि भागे असुरक्षायाः प्रभावः सम्पूर्ण-देशस्य अर्थव्यवस्थायां पतति। सुरक्षित-भारतं विना समृद्ध-भारतं न सम्भवति। राष्ट्रपतिः अवदत् यत् वामपन्थी-उग्रवादः प्रायः समाप्तेः कगारं प्राप्तः अस्ति। सुरक्षा-बलानां तथा आन्तरिक-सुरक्षा-एजेन्सीनां सघन-कार्यम्, समुदायानां विश्वास-अर्जनाय स्वीकृता समग्र-रणनीतिः च अस्य प्रमुखाः कारणाः अभवन्। आदिवासी-दूरस्थ-क्षेत्रेषु सामाजिक-आर्थिक-समावेशनात् वामपन्थी-चरमपन्थिभिः तथा विद्रोही-समूहैः कृतः शोषणः प्रभावी-रीत्या निरुद्धः।
सामाजिक-माध्यमानां विषये राष्ट्रपतिः अवदत् यत् एतत् सूचना-सञ्चार-जगत् परिवर्तयितुं समर्थं माध्यमं भवति, यस्मिन् सृजनस्य विनाशस्य च द्वयोः शक्तिः अस्ति। मिथ्या-सूचनाभिः दुष्प्रचारैः च जनानां रक्षणं महद् आव्हानं भवति। तस्मै राष्ट्रिय-हिते तथ्य-आधारित-कथानकान् प्रस्तुतयन्ति ये जागरूक-सामाजिक-माध्यम-उपयोक्तारः, तेषां समुदायस्य निर्माणं आवश्यकम्। राष्ट्रपतिः अवदत् यत् अद्यतनाः अतिजटिलाः सुरक्षा-चुनौतयः अपरम्परागत-डिजिटल-स्वभावयुक्ताः सन्ति, येषां मूलानि अत्याधुनिक-प्रौद्योगिकीषु निहितानि। डिजिटल-प्रपञ्चने वर्धमानां समस्यां निवारयितुं गृहे, संस्थायां, समुदाय-स्तरे च सतर्कता आवश्यकम्। डिजिटल-मञ्चाः नागरिकान् फिशिङ्, ऑनलाइन-प्रपञ्चनं, साइबर-उत्पीडनं च सूचयितुं समर्थयन्ति।
सा अवदत् यत् एतादृशस्य वास्तविकसमय-दत्तांशस्य विश्लेषणेन प्राकक्लनम्-आराक्षकीयप्रारूपाः विकसितुं शक्यन्ते। सचेताः प्रौद्योगिकी-सक्षमाः च नागरिकाः न केवलं स्वयम् साइबर-अपराधेभ्यः सुरक्षिताः भविष्यन्ति, अपि तु एतेषां विरुद्धं दृढं डिजिटल-सुरक्षा-कवचं अपि निर्मास्यन्ति।
राष्ट्रपतिः विश्वासं व्यक्तवती यत् जन-सहभागिता-प्रेरितः अयं परिवर्तनः भारतं सतर्कं, शान्तिमयं, सुरक्षितं, समृद्धं च राष्ट्रं कर्तुं शीघ्रतया अग्रे नयिष्यति। अस्मिन् अवसरे केन्द्रीय-गृहमन्त्री अमित-शाहः, गृह-राज्यमन्त्री बन्दी-सञ्जय-कुमारः, केन्द्रीय-गृह-सचिवः गोविन्द-मोहनः इत्यादयः बहवः गण्यमान्याः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता