Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 23 दिसंबरमासः (हि.स.)।लोकसभायां नेता प्रतिपक्षः राहुलगान्धी स्वस्य पञ्चदिवसीयस्य जर्मनीदेशीयदौरे भारतीयजनतापक्षस्य भारतीयसंविधानस्य मूलभावनां दुर्बलयितुं षड्यन्त्रं रचयति इति आरोपं कृतवान्। सः अवदत् यत् भारतीयजनतापक्षः संविधाननिहितान् समानाधिकारान्, राज्याणां समानतां, भाषाविविधतां, धार्मिकसमानतां च समाप्तुं इच्छति।
कांग्रेसपक्षस्य नेता राहुलः बर्लिननगरे स्थिते हर्टीविद्यालये आयोजिते कार्यक्रमे विद्यार्थिभिः सह संवादं कृतवान्। तस्य संवादस्य सोमवासरात्रौ प्रायः एकघण्टापर्यन्तं दृश्यमाध्यमं सामाजिकमाध्यमेषु प्रकाशितम्। अस्मिन् दृश्यमाध्यमे सः लोकतन्त्रस्य, संस्थानां, वैश्विकपरिस्थितीनां च विषये स्वविचारान् प्रकटितवान्।
राहुलगान्धी अवदत् यत् भारतस्य लोकतान्त्रिकसंस्थानि स्वातन्त्र्येण कार्यं कर्तुं न शक्नुवन्ति। सीबीआई प्रवर्तननिदेशालयादयः संस्थाः विरोधिनां विरुद्धं राजनैतिकायुधरूपेण उपयुज्यन्ते। कांग्रेसपक्षस्य सङ्घर्षः केवलं भारतीयजनतापक्षस्य विरुद्धं न, अपि तु संस्थागतसंरचनायाः तथा संस्थानां कथितकब्जस्य विरुद्धमपि अस्ति।
सः प्रमाणितवान् यत् भारतस्य हरियाणाराज्यस्य मतदाता-सूच्यां एकस्याः विदेशिन्याः महिलायाः नाम प्राप्तम्, अस्य विषये प्रश्नः उठापितः, किन्तु निर्वाचनआयोगात् सन्तोषजनकं उत्तरं न प्राप्तम्। राहुलगान्धीः महाराष्ट्रविधानसभानिर्वाचनस्य निष्पक्षतायाः विषये अपि प्रश्नान् कृतवान्।
राहुलः अवदत् यत् भारतदेशे व्यापकस्तरे जीविकासृजनाय विनिर्माणक्षेत्रस्य सुदृढीकरणं अत्यावश्यकम्। भारतीयजनतापक्षस्य सर्वकारः केषाञ्चन महद्योगसमूहानां पक्षे विशेषप्राधान्यं दत्तवती। नोटबन्दी तथा वस्तुसेवाकरनीतिभिः लघु मध्यमोद्योगाः हानिं प्राप्तवन्तः।
राहुलगान्धी अवदत् यत् भारतदेशः अतिविशालः विविधश्च अस्ति, अतः तस्य भविष्यं एकेन व्यक्तिना निर्धारयितुं न शक्यते। संविधानं भारतं राज्याणां सङ्घरूपेण स्वीकरोति, किन्तु वर्तमानसर्वकारः अस्य विषये व्यापकचर्चायै सज्जा न अस्ति।
---------------
हिन्दुस्थान समाचार