नागौर-जनपदस्य मेड़तानगरे अद्य राज्यस्तरीयः कृषकसम्मेलनम् आयोज्यते
मुख्यमन्त्री च केन्द्रीयग्रामीणविकासकृषि- तथा कृषक-कल्याणमन्त्री च प्रदेशाय विविधाः उपहारान् प्रदाष्यतः
मुख्यमंत्री भजनलाल शर्मा


जयपुरम्, 23 दिसंबरमासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मणः अध्यक्षतायाम् तथा केन्द्रीय-ग्रामीण-विकास-, कृषि- एवं कृषक-कल्याणमन्त्री शिवराजसिंह-चौहानस्य मुख्यातिथ्ये अद्य 23 दिसम्बर-दिने नागौर-जनपदस्य मेड़ता-सिटी-नगरे डांगावास-स्थले राज्यस्तरीयः कृषक-सम्मेलनः आयोज्यते। अस्मिन् सम्मेलने प्रधानमन्त्री-ग्राम-सड़क-योजनायां द्विसहस्र-कोटिरूप्यकाणाम् अधिकस्य स्वीकृतिः, तथा राज्य-परियोजनासु कृषकेभ्यः द्वादशशत-कोटिरूप्यकाणां हस्तान्तरणस्य उपहारः प्रदास्यते।

सम्मेलने मुख्यमन्त्रिणः तथा केन्द्रीयमन्त्रिणः उपस्थितौ कृषि- एवं उद्यानिकी-योजनानाम् अन्तर्गतं एकत्रिंशत्-सहस्र-षट्शत- (31,600) कृषकेभ्यः द्विशत-कोटिरूप्यकाणां, कृषि-आदान-अनुदान-योजनायाम् अन्तर्गतं पञ्च-लक्ष-कृषकेभ्यः सप्तशत-कोटिरूप्यकाणां, प्रधानमन्त्री-आवास-योजना-ग्रामीण-अन्तर्गतं अष्टादश-सहस्र-पञ्चशत- (18,500) लाभार्थिभ्यः शत-कोटिरूप्यकाणां, तथा मुख्यमन्त्री-दुग्ध-उत्पादन-संबल-योजनायाम् अन्तर्गतं चतुर्लक्ष-पञ्चाशत्-सहस्र- (4.50 लाख) पशुपालकेभ्यः द्विशत-कोटिरूप्यकाणां राशेः हस्तान्तरणं क्रियते। सह एव नागौर-जनपदे एकत्रिंशत्-पञ्चाशत्-एक- (351) कोटिरूप्यक-मूल्यानां विकास-कार्याणां लोकार्पणं शिलान्यासं च सम्पन्नं भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता