Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 23 दिसंबरमासः (हि.स.)।
भारतीयडाकविभागस्य कृते वर्षं २०२५ ऐतिहासिकं सिद्धम्। अस्मिन् वर्षे डाकविभागः पासपोर्टसेवा, आधार-अद्यतनीकरणम्, निर्यातकेन्द्रः, वित्तीयसेवाः, डिजिटलनवाचारस्य च प्रमुखकेन्द्ररूपेण उद्भूतः। विभागेन अस्मिन् वर्षे सम्पूर्णदेशे ४५२ डाकघर-पासपोर्टसेवाकेन्द्राणि सञ्चालितानि। जनवरीमासात् नवम्बरमासपर्यन्तं २९ लक्षाधिकाः पासपोर्ट-आवेदनाः निपटिताः, येषु १.५४ लक्ष पुलिस-क्लीयरन्स् प्रमाणपत्राणि अपि अन्तर्भूतानि। अनेन विभागेन ११४ कोटिरूप्यकाणाम् अधिकं राजस्वं प्राप्तम्।
देशव्यापिरूपेण सञ्चालितेषु १३,३५२ आधारकेन्द्रेषु २.३५ कोट्यधिकाः नामाङ्कन-अद्यतनीकरणकार्याणि कृतानि, येन १२९ कोटिरूप्यकाणां राजस्वं अर्जितम्। विभागेन १ अगस्तात् १५ अगस्तपर्यन्तं सञ्चालिते राष्ट्रव्यापिनि ‘हर घर तिरंगा’ अभियाने २८ लक्षाधिकाः राष्ट्रध्वजाः वितर्य इतिहासः रचितः। तदतिरिक्तं विभागेन १,०१३ डाकघर-निर्यातकेन्द्राणां माध्यमेन लघुकारिगराणां, महिला-उद्यमिनाम्, एमएसएमई-एककानां च प्रत्यक्षविदेशीयनिर्यातस्य अवसरः प्रदत्तः। एतैः १२.३१ लक्ष शिपमेण्ट् सम्पन्नानि, प्रायः २८७ कोटिरूप्यकपरिमितस्य निर्यातस्य सुगमता अभवत्।
इसरो तथा आईआईटी हैदराबादेन सह विकसितं नवाचाराधारितं दशाक्षरयुक्तं जियोकोडितं डिजिटल-पताव्यवस्था-तन्त्रं ‘डिजिपिन्’ नाम्ना एशियन-पैसिफिक-पोस्टल-यूनियन-फोरमे नवाचारविषये विशेष-सम्मानपुरस्कारं प्राप्तवान्।
केन्द्रीयसञ्चारमन्त्रालयस्य अनुसारं विदेशमन्त्रालयेन सह मिलित्वा आन्ध्रप्रदेशस्य अराकु, तमिलनाडोः तिरुपुर-पोलाचि, बिहारस्य बखरा-राजनगर, केरले कलपेट्टा, मध्यप्रदेशस्य खरगोन-भिण्ड-मण्डला, उत्तरप्रदेशस्य कुशीनगर इत्यादिषु स्थलेषु १० नवीनानि डाकघर-पासपोर्टसेवाकेन्द्राणि उद्घाटितानि, येन एतेषां संख्या ४५२ पर्यन्तं प्राप्ता। अधुना प्रत्येकस्मिन् लोकसभाक्षेत्रे एकं केन्द्रं स्थापयितुं विभागः योजनां करोति, येन जनानां पासपोर्टप्राप्तौ बाधाः न्यूनाः भविष्यन्ति। जनवरी-नवम्बरमासयोः मध्ये २९ लक्षाधिकाः आवेदनाः परीक्षणं कृतवन्तः, यैः ११४ कोटिरूप्यकाणाम् अधिकं राजस्वं प्राप्तम्।
आधारसेवाविषये विभागः अवदत् यत् सम्पूर्णदेशे १३,३५२ आधारकेन्द्राणि कार्यरतानि सन्ति, यत्र नागरिकाः समीपस्थाने आधारनिर्माणं वा अद्यतनीकरणं कर्तुं शक्नुवन्ति। जनवरी-नवम्बरमासयोः मध्ये २.३५ कोट्यधिकाः कार्याणि सम्पन्नानि, येन १२९ कोटिरूप्यकाणां राजस्वं प्राप्तम्। दूरस्थग्रामेषु सेवाविस्ताराय मोबाइल-लैपटॉप-आधारकिट् अपि वितरितानि। अक्टोबरमासे राष्ट्रीय-डाक-सप्ताहकाले विद्यालयेषु १,५५२ शिविराणि आयोजितानि। पञ्चवर्ष- पञ्चदशवर्ष-आयु पूर्णानां बालकानां बायोमेट्रिक्-अद्यतनीकरणं कृतम्, यत्र ४,३३५ नूतननामाङ्कनानि ३५,६०६ अद्यतनीकरणानि च सम्मिलितानि। विशेषतया सियाचिनप्रदेशे आधारकेन्द्रस्य उद्घाटनं कृतम्, यत् देशस्य सर्वोच्चस्थ आधारकेन्द्रम् अभवत्। सैनिकक्षेत्रेषु ११० केन्द्राणि कार्यरतानि सन्ति।
‘हर घर तिरंगा’ अभियाने ०१–१५ अगस्तपर्यन्तं विभागेन २८ लक्ष १३ सहस्राधिकाः तिरङ्गध्वजाः वितरिताः। ध्वजाः सर्वेषु डाकघरेषु विक्रयार्थं स्थापिताः, ई-पोस्ट-ऑफिस-पोर्टले च ऑनलाइन् उपलब्धाः कृताः। डाककर्मिभिः ग्रामे ग्रामे यात्राः, प्रभातफेर्यः, गृहगृहं ध्वजवितरणं, द्विचक्रिकायात्राः, विद्यालयेषु बालकैः सह विविधाः क्रियाः आयोजिताः।
लघुव्यापारिणां कारिगराणां च हिताय डाकघर-निर्यातकेन्द्रयोजनान्तर्गतं सम्पूर्णदेशे १,०१३ केन्द्राणि सन्ति, ये ७६२ जिलेषु विस्तीर्णानि। उत्तरपूर्वप्रदेशेषु अपि १२२ केन्द्राणि स्थापितानि। एतैः वर्षे १२.३१ लक्ष शिपमेण्ट् सम्पन्नानि, येषां मूल्यं प्रायः २८७ कोटिरूप्यकाणि।
डिजिपिन् नामकः नवप्रकल्पः अस्य वर्षस्य महान् परिवर्तनकारकः अभवत्। दशाक्षरयुक्तः अयं कोडः देशस्य प्रत्येकं ४×४ मीटर् क्षेत्रं पृथग् परिचयं ददाति। मार्चमासे आरब्धः, मईमासे वेब्-ऐप् अपि प्रवर्तितः। ई-वाणिज्ये, शासकीययोजनासु, आपत्कालीनसेवासु च अस्य उपयोगः भवति। अस्य उपक्रमस्य बैंकॉकनगरे एशियन-पैसिफिक-पोस्टल-यूनियन-फोरमे विशेष-सम्मानः प्रदत्तः।
वित्तीयसेवाक्षेत्रे डाकविभागेन म्यूचुअल्-फण्ड् निवेशकानां केवाईसी गृहगमनसेवया अनिवार्यीकृता। यूनिट् ट्रस्ट् ऑफ् इंडिया, एसयूयूटीआई, निप्पॉन् इंडिया, एसबीआई फण्ड्स्, एएमएफआई इत्यादिभिः सह समझौताः कृताः। नवम्बरमासपर्यन्तं ५ लक्ष केवाईसी पूर्णाः अभवन्। अधुना डाकघरैः म्यूचुअल्-फण्ड् विक्रयः अपि आरभ्यते।
तदतिरिक्तं बीएसएनएल् संस्थया सह करारः कृतः, येन डाकघरेषु सिम्-विक्रयः रिचार्ज्-सेवा च भविष्यति। असमे पायलट्-परियोजना सफलाभवत्।
अन्तरराष्ट्रीयस्तरे यूपीआई-प्रणालीं यूनिवर्सल्-पोस्टल्-यूनियन-सह संयोज्य विदेशीयरेमिटेन्स् सुकरा कृता। मार्चमासे जयपुरनगरे एशिया-पैसिफिक्-पोस्टल्-लीडर्स्-फोरम् आयोजितम्, यत्र २८ देशानां प्रतिनिधयः आगताः। डिसेम्बरमासे रूस्-पोस्ट्-सह ट्रैक्ड्-पैकेट्-सेवायाः करारः अपि सम्पन्नः।
अस्मिन् वर्षे ४२ ऐतिहासिकटिकट् अपि प्रकाशितानि, येषु आरएसएसस्य शतवर्षपूर्तिः, कोडैकनाल् वेधशालायाः १२५ वर्षाणि, सिक्किमराज्यस्य ५० वर्षाणि, वन्दे मातरम् १५० वर्षाणि, चेनाब् रेल्-ब्रिज्, एमएस् स्वामीनाथन् इत्यादयः अन्तर्भूताः। ४७ व्यक्तिगत ‘माइ स्टाम्प्’ अपि निर्गताः।
संयुक्तराष्ट्रसंघस्य ८० वर्षपूर्तौ आयोजितायां स्टाम्प्-डिज़ाइन-प्रतियोगितायां ७.४ लक्ष बालकाः भागं गृहीतवन्तः। प्रधानमन्त्री-रोजगार-सृजन-कार्यक्रमस्य १.६९ लक्ष एककानां सत्यापनं कृतम्। एटीएम्-जालं अद्यतनीकृत्य १००० अधिकाः नूतनयन्त्राणि स्थापितानि। ई-केवाईसी अभियाने १ लक्षाधिकं कोषाः उद्घाटिताः, २४ लक्ष लेनदेनानि च सम्पन्नानि।
डिसेम्बरमासे ट्राई-सह ग्रामीण-दूरभाष-संयोजनासर्वेक्षणं क्रियते। डाकसेवक्-ऐप् माध्यमेन ६.५ लक्ष ग्रामाणां सर्वेक्षणं भविष्यति। एमएसएमई उद्यम-पञ्जीकरणं अनौपचारिक-माइक्रो-उद्यम-सत्यापनं च डाकविभागः करिष्यति, येन यथार्थोद्यमिनः एव अनुदान-ऋणलाभं प्राप्स्यन्ति।
------------
हिन्दुस्थान समाचार