Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 23 दिसंबरमासः (हि.स.)।
पूर्वप्रधानमन्त्रिणो भारतरत्नस्य चौधरीचरणसिंहस्य जयन्त्यवसरे समग्रे राष्ट्रे तस्मै श्रद्धाञ्जलिः अर्पितः, देशवासिभ्यश्च राष्ट्रियकृषकदिवसस्य शुभाशयाः प्रेषिताः।
लोकसभाध्यक्षः ओम् बिरला स्वीयायां सामाजिकमाध्यमस्थायां सूचनायां अवदत् यद्
“दिवङ्गतस्य चौधरी चरणसिंहस्य जयन्त्यवसरे अहं तस्मै भावपूर्णं नमनं करोमि। सः भारतीयराजनीत्यां ग्रामस्य, किसानस्य, श्रमिकस्य च स्वरः आसीत्।”
गृहमन्त्री अमित शाह अवदत् यतृ
“पूर्वप्रधानमन्त्री, किसाननेता चौधरी चरणसिंहः स्वीयायां जयन्त्यां नम्यते। तस्य सम्पूर्णं जीवनं कृषिव्यवस्थायाः उत्थानाय, किसानकल्याणाय, समाजसेवायै च समर्पितम् आसीत्।”
रक्षामन्त्री राजनाथ सिंह अवदत् यत्“एषः दिवसः राष्ट्रियकृषकदिवसरूपेण तस्याः विचारधारायाः स्मरणं करोत्, या किसानं नीत्याः राष्ट्रस्य च केन्द्रे स्थापितवती। देशस्य विकासे, किसानकल्याणे च चौधरी चरणसिंहस्य यत् योगदानम् आसीत्, तत् सदा स्मरणीयं भविष्यति।”
केन्द्रीयः सड़कपरिवहन-राजमार्गमन्त्री नितिन गडकरी अवदत्यत्“पूर्वप्रधानमन्त्री भारतरत्नः चौधरी चरणसिंहः स्वीयकार्यकाले किसानानां जीवनं उन्नतं कर्तुं सर्वसम्भवं प्रयत्नं कृतवान्। राष्ट्रियकृषकदिवसस्य हार्दिकाः शुभाशयाः।”
अल्पसंख्यककार्य मन्त्री किरेन रिजिजू अवदत् यत् कृषकाणां राजनेता पूर्वप्रधानमन्त्री चौधरी चरणसिंहः स्वीयायां जयन्त्यां नम्यते, सर्वेभ्यः देशवासिभ्यश्च किसानदिवसस्य हार्दिकाः शुभाशयाः।”
केन्द्रीयः संस्कृति-पर्यटनमन्त्री गजेन्द्रसिंह शेखावत अवदत्—
“देशस्य समृद्धेः मार्गः ग्रामाणां क्षेत्राणि खलिहानानि च अतिक्रम्य एव गच्छति। कृषकाणां नाथस्य भारतरत्नः पूर्वप्रधानमन्त्री दिवङ्गतः चौधरी चरणसिंहः स्वीयायां जयन्त्यां शतशः नम्यते।”
केन्द्रीयः वस्त्र-मन्त्री गिरिराज सिंह अवदत् यत्“देशस्य अन्नदातॄन् किसानभ्रातॄन् प्रति, समस्तान् देशवासिनः प्रति च राष्ट्रियकृषकदिवसस्य हार्दिकाः शुभाशयाः।”
कृषि-किसानकल्याण मन्त्री शिवराजसिंह चौहान अवदत् यत्
“विकसितस्य आत्मनिर्भरस्य भारतस्य निर्माणे चौधरी चरणसिंहस्य विचाराः सदा प्रासङ्गिकाः भविष्यन्ति। राष्ट्रोत्थानाय, किसानकल्याणाय च समर्पितं तव जीवनं देशवासिनः अन्नदातॄणां हिताय, ग्रामविकासाय च निरन्तरं प्रेरयिष्यति।”
संस्कृतिराज्यमन्त्री (स्वतन्त्रप्रभारः) राव इन्द्रजीत् सिंह अवदत् यत्“चौधरी चरणसिंहस्य विचाराः नीतयश्च अद्यापि कृषकहिताय मार्गदर्शकाः सन्ति।”
---------------
हिन्दुस्थान समाचार