Enter your Email Address to subscribe to our newsletters

नवदेहली, 23 दिसंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य पूर्व-प्रधानमन्त्रिणः भारत-रत्नः चौधरी चरणसिंहस्य जयन्त्यवसरे तं श्रद्धांजलिम् अर्पितवान्। प्रधानमन्त्री कथितवान् यत् चौधरी चरण-सिंहः स्वजीवनं समाजस्य वञ्चितवर्गस्य कल्याणाय, कृषि-विकासाय तथा कृषकाणां समृद्धये समर्पितवान्।
सः ‘एक्स्’ माध्यमेन उक्तवान् यत् चौधरी चरणसिंहः कृषकाणाम् अधिकाराणां रक्षणाय तथा ग्रामीण-भारतस्य दृढीकरणाय उत्कृष्टं कार्यं कृतवान्। तेषां विचाराः नीतयः च अद्यापि देशस्य प्रेरणास्रोतः सन्ति। प्रधानमन्त्री अपि उक्तवान् यत् राष्ट्रनिर्माणे चौधरी चरण्-सिंहस्य योगदानं देशः कदापि विस्मर्तुं न शक्नोति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता