Enter your Email Address to subscribe to our newsletters

रायपुरम्, २४ दिसम्बरमासः (हि.स.)। छत्तीसगढस्य प्रसिद्धः साहित्यकारः तथा ज्ञानपीठपुरस्कारसम्भावितः विनोदकुमार-शुक्लः मङ्गलवासरे सायं ८९-वर्षे वयसि दिवंगतः। मुख्यमन्त्री विष्णुदेव-सायः अद्य बुधवासरे राजधानीरायपुरस्य शैलेन्द्रनगरस्थिते निवासे गत्वा दिवंगतस्य विनोदकुमारशुक्लस्य अन्तिमदर्शनं कृत्वा तस्मै श्रद्धाञ्जलिम् अर्पितवान्। मुख्यमन्त्री तस्य पार्थिवशरीरे पुष्पचक्रं समर्प्य नमनं कृतवान् तथा ईश्वरं दिवंगत-आत्मनः शान्त्यर्थं प्रार्थितवान्।
अस्मिन् अवसरे मुख्यमन्त्री सायः स्वर्गीय-श्री-शुक्लस्य पार्थिवशरीरं स्कन्धेन वहन् भावपूर्णाम् अन्तिम-यात्रां सम्पादितवान्। सः शोक-सन्तप्त-परिवारजनेन सह समागम्य गभीराः संवेदनाः व्यक्तवान्, तथा असंख्येभ्यः पाठकेभ्यः साहित्य-प्रेमिभ्यश्च अस्य अपार-दुःखस्य सहनाय शक्तेः प्रदानं कामितवान्।
मुख्यमन्त्री सायः अवदत् यत् छत्तीसगढ़स्य माट्याः उद्भूतस्य महतः साहित्यकारस्य विनोदकुमारशुक्लस्य निधनात् हिन्दीसाहित्य-जगतः अपूरणीयां क्षतिं प्राप्तवान्। तस्य रचनाः संवेदनशीलता, मानवीयसरोकाराः, सरलया किन्तु गहना अभिव्यक्त्या च अनुपमं उदाहरणं सन्ति। सः अवदत् यत् श्री-शुक्लस्य लेखनी हिन्दीसाहित्यं नवीन-उन्नतिभ्यः नीतवती। तस्य साहित्यं न केवलं पाठकान् गभीरतया स्पृशति, अपि तु आगामिपीढीभ्यः प्रेरणायाः मार्गदर्शनस्य च स्रोतः भविष्यति। साहित्य-जगति तस्य अवदानं सदा स्मरणीयं भविष्यति। श्री-शुक्लः राजकीयसम्मानेन सह अन्तिम-विदायां दत्तः।
अस्मिन् अवसरे कविः डॉ. कुमारविश्वासः, मुख्यमन्त्रिणः संचारमाध्यम-परामर्शकः पंकज-झा, मुख्यमन्त्रिणः प्रेस-अधिकारी अलोक-सिंहः, छत्तीसगढ़साहित्य-अकादम्याः अध्यक्षः शशांक-शर्मा, वरिष्ठसाहित्यकाराः, जन-प्रतिनिधयः तथा अधिकारीगणाः उपस्थिताः आसन्। उल्लेखनीयम् अस्ति यत् एकं मासं पूर्वमेव सः भारतस्य सर्वोच्च-साहित्यिकसम्मानेन ज्ञानपीठपुरस्कारेण सम्मानितः आसीत्। शुक्लः गत-कतिपय-मासेभ्यः अस्वस्थः आसीत्, तस्य उपचारः एम्स्-रायपुरे प्रचलितः आसीत्। ६ दिसम्बरदिने विनोदशुक्लेन विरचिता तस्य अन्तिमा कविता आसीत्—
बत्ती मैंने पहले बुझाई, फिर तुमने बुझाई, फिर हम दोनों ने मिलकर बुझाई’। इति
साहित्यकारः विनोद-कुमार-शुक्लः ज्ञानपीठस्य महाप्रबन्धकेन आर.एन. तिवारीणां हस्तेन वाग्देव्याः प्रतिमापुरस्कार-धनादेशं च प्राप्य सम्मानितः आसीत्।
हिन्दुस्थान समाचार / Dheeraj Maithani