मुख्यमन्त्री-नौनिहाल-छात्रवृत्ति-सहायता-योजनायै आवेदनस्य अन्तिमदिनाङ्कः ३१ दिसम्बरः
रायपुरम्, 24 दिसंबरमासः (हि.स.)। श्रम-विभागेन सञ्चालितायाः मुख्यमन्त्री-नौनिहालछात्रवृत्तिसहायता-योजनायाः कृते आवेदनस्य अन्तिमदिनाङ्कः ३१ दिसम्बर इति निर्धारिता अस्ति। ततः परं प्राप्तेषु आवेदनेषु विचारः न करिष्यते। श्रमविभागस्य अन्तर्गतं छत्तीसगढ-भ
मुख्यमंत्री नौनिहाल छात्रवृत्ति सहायता योजना


रायपुरम्, 24 दिसंबरमासः (हि.स.)। श्रम-विभागेन सञ्चालितायाः मुख्यमन्त्री-नौनिहालछात्रवृत्तिसहायता-योजनायाः कृते आवेदनस्य अन्तिमदिनाङ्कः ३१ दिसम्बर इति निर्धारिता अस्ति। ततः परं प्राप्तेषु आवेदनेषु विचारः न करिष्यते। श्रमविभागस्य अन्तर्गतं छत्तीसगढ-भवन-एवं-अन्य-सन्निर्माण-कर्मकार-कल्याण-मण्डलेन सञ्चालितायाः अस्याः योजनायाः अन्तर्गतं पञ्जीकृत-श्रमिकानां अध्ययनरत-अपत्यानां कृते ऑनलाइन-आवेदनानि स्वीक्रियन्ते।

ये पञ्जीकृत-श्रमिकाः सन्ति, येषां अपत्यानि अध्ययनरतानि सन्ति, तथा ये अद्यावधि योजनायाः कृते आवेदनं न कृतवन्तः, ते श्रमेव जयते मोबाइल-एप् द्वारा, श्रम-विभागीयकार्यालयात्, समीपस्थश्रमसंसाधनकेन्द्रात् अथवा समीपस्थ-चयन-केन्द्रात् माध्यमेन ऑनलाइन-आवेदनं कर्तुं शक्नुवन्ति। मण्डलेन स्पष्टं कृतम् यत् ३१ डिसम्बर अस्य योजनायाः अन्तर्गतम् आवेदन-स्वीकारस्य अन्तिमदिनाङ्कः अस्ति। ततः परं प्राप्तेषु आवेदनेषु विचारः न करिष्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता