इसरो अल्पविलम्बेन संचार-उपग्रहस्य करिष्यति प्रक्षेपणम्
श्रीहरिकोटा (आन्ध्रप्रदेशः), 24 दिसम्बरमासः (हि.स.)। भारतीय-अन्तरिक्ष-अनुसन्धान-संस्था (इसरो) अद्य अल्पविलम्बानन्तरं श्रीहरिकोटा-अन्तरिक्ष-केन्द्रात् महत्त्वाकाङ्क्षिणं संचार-उपग्रहं प्रक्षेपयिष्यति। प्रातः 8:54 वादने (एल.वी.एम्.-3 एम्.-6) नामक-रॉक
सांकेतिक


श्रीहरिकोटा (आन्ध्रप्रदेशः), 24 दिसम्बरमासः (हि.स.)। भारतीय-अन्तरिक्ष-अनुसन्धान-संस्था (इसरो) अद्य अल्पविलम्बानन्तरं श्रीहरिकोटा-अन्तरिक्ष-केन्द्रात् महत्त्वाकाङ्क्षिणं संचार-उपग्रहं प्रक्षेपयिष्यति। प्रातः 8:54 वादने (एल.वी.एम्.-3 एम्.-6) नामक-रॉकेट् इत्यनेन अस्य प्रक्षेपणं भविष्यति। अनेन रॉकेट् द्वारा “ब्लूबर्ड् ब्लॉक्–2” इति नामकः उपग्रहः अन्तरिक्षे प्रेष्यते। प्रक्षेपणात् प्रायः 15 निमेषानन्तरं ब्लूबर्ड् ब्लॉक्–2 उपग्रहस्य रॉकेटात् पृथक्करणं भविष्यतीति अपेक्षा अस्ति।

एषः प्रक्षेपण-कार्यक्रमः न्यूस्पेस् इण्डिया लिमिटेड् (एन्.एस्.आई.एल्.) तथा अमेरिकादेशस्य ए.एस्.टी. स्पेसमोबाइल् इति संस्थयोः मध्ये सम्पन्नस्य सहमत्या अनुसारं क्रियते। एन्.एस्.आई.एल् इसरो-संस्थायाः व्यावसायिक-इकाई अस्ति। इसरो द्वारा सूचितं यत् अयं संचार-उपग्रहः प्रायः 6,100 किलोग्राम-भारयुक्तः अस्ति। एषः एल.वी.एम्.-3 रॉकेट् द्वारा पृथिव्याः अधोकक्षायां प्रेष्यमाणः अद्यावधिः सर्वाधिक-भारयुक्तः उपग्रहः भविष्यति।

ए.एस्.टी. स्पेसमोबाइल् संस्थया अयं “ब्लूबर्ड् ब्लॉक्–2” नामकः अग्रिम-पीढी-संचार-उपग्रहः विश्वव्यापिनां स्मार्टफोन-यन्त्राणां कृते प्रत्यक्षतया 24x7 उच्च-वेगयुक्त-सेल्युलर्-ब्रॉडबैंड्-सेवां प्रदातुं विनिर्मितः अस्ति। ब्लूबर्ड् ब्लॉक्–2 उपग्रहस्य 223 वर्गमीटर-परिमाणयुक्तं फेज्ड्-एरे अस्ति, येन सः लो-अर्थ्-ऑर्बिट् मध्ये स्थापितः अद्यावधिः सर्वाधिक-विस्तीर्णः वाणिज्यिक-संचार-उपग्रहः भविष्यति।

एषः इसरो-संस्थायाः 101तमः अभियानः अस्ति। अयं ऐतिहासिकः अभियानः अग्रिम-पीढी-संचार-उपग्रहस्य स्थापनां करिष्यति, यः विश्वस्य सर्वत्र प्रत्यक्षतया स्मार्टफोन-यन्त्रेभ्यः उच्च-वेगयुक्तां सेल्युलर्-ब्रॉडबैंड्-सेवां प्रदातुं विनिर्मितः अस्ति। ब्लूबर्ड् ब्लॉक्–2 अभियानस्य मुख्योद्देश्यः उपग्रहस्य माध्यमेन प्रत्यक्ष-मोबाइल्-संयोजकता (डायरेक्ट्-कनेक्टिविटी) उपलब्धं कर्तुम् अस्ति। अयं नेटवर्क् विश्वे कुत्रापि, कदापि, सर्वेभ्यः 4-जी तथा 5-जी वॉइस्-वीडियो-कॉल्, सन्देश-प्रेषण, स्ट्रीमिङ् तथा डेटा-सेवाः उपलब्धं करिष्यति।

अस्य प्रक्षेपणस्य पूर्वसन्ध्यायां इसरो-अध्यक्षः वी. नारायणन् महोदयः तिरुमला-स्थिते श्रीवेङ्कटेश्वर-स्वामि-मन्दिरे पूजां अकरोत्।

हिन्दुस्थान समाचार