श्री राधा-कृष्ण प्रणामी मंदिरे प्रतिदिनम् अन्नपूर्णा कृशरान्न प्रसाद सेवा आरब्धा
रांची, 24 दिसंबरमासः (हि.स.)। श्रीकृष्णप्रणामीसेवाधामसमितेः परतया श्रीकृष्णप्रणामीमङ्गलराधिकासदानन्दसेवाधाम्नि श्रीराधाकृष्णप्रणामीमन्दिरे पुन्दागे गतविंशतितमे दिसम्बरमासात् प्रतिदिनम् अन्नपूर्णा वेजिटेबल खिचडी भोगसेवायाः आरम्भः कृतः अस्ति। अस्याः
मंदिर परिसर में भोग खिलाते ट्रस्ट के लोगों की तस्वीर


रांची, 24 दिसंबरमासः (हि.स.)। श्रीकृष्णप्रणामीसेवाधामसमितेः परतया श्रीकृष्णप्रणामीमङ्गलराधिकासदानन्दसेवाधाम्नि श्रीराधाकृष्णप्रणामीमन्दिरे पुन्दागे गतविंशतितमे दिसम्बरमासात् प्रतिदिनम् अन्नपूर्णा वेजिटेबल खिचडी भोगसेवायाः आरम्भः कृतः अस्ति। अस्याः सेवायाः अन्तर्गतं प्रतिदिनं मध्याह्ने द्वादशवादनात् अर्धघटिकात्रयं यावत् अर्थात् द्वादशवादनत्रिंशत् निमेषात् द्वितीयवादनपर्यन्तं श्रद्धालूनां मध्ये खिचडीभोगप्रसादस्य वितरणं क्रियते। बुधवासरे अपि एषा सेवा श्रद्धया भक्त्या च सम्यक् सम्पन्ना।ट्रस्टस्य उपाध्यक्षः राजेन्द्रप्रसाद अग्रवालः तथा प्रवक्ता सह माध्यमप्रभारी सञ्जय सर्राफः संयुक्तरूपेण अवदताम् यत् प्रतिदिनं मध्याह्ने द्वादशवादने मन्दिरस्य पुजारी पण्डित अरविन्द पाण्डेयेन विधिवत् कृशयान्नभोगः समर्प्यते। ततः अनन्तरं श्रद्धालूनां मध्ये प्रसादस्य वितरणं भवति। तौ अपि अवदताम् यत् समितेःसंस्थापकस्य स्वामी डाक्टर सदानन्दजी महाराजस्य सान्निध्ये मन्दिरपरिसरे एषा अन्नपूर्णा सेवा नियमितरूपेण सञ्चाल्यते।तयोः कथनानुसारम् अस्याः सेवायाः माध्यमेन प्रतिदिनं प्रायः चतुःशतानि श्रद्धालवः वेजिटेबल खिचडी भोगप्रसादं गृह्णन्ति। मन्दिरपरिसरे श्रद्धालूनां उपस्थितिः निरन्तरं वर्धते तथा च अन्नपूर्णा सेवां प्रति भक्तेषु विशेषः उत्साहः दृश्यते।सञ्जय सर्राफः अवदत् यत् ट्रस्टेन विगतपञ्चवर्षेभ्यः प्रत्येकं रविवासरे श्रीकृष्णप्रणामी अन्नपूर्णा सेवा महाप्रसाद भण्डारस्य आयोजनं क्रियते स्म। सः अपि अवदत् यत् श्रीराधाकृष्णप्रणामीमन्दिरे प्रतिदिनं शताधिकाः श्रद्धालवः दर्शनार्थं आगच्छन्ति तथा च ट्रस्टः सेवा भक्ति सामाजिकसमर्पणभावेन निरन्तरं कार्यं करोति।---------

हिन्दुस्थान समाचार