Enter your Email Address to subscribe to our newsletters

भोपालम्, 24 दिसंबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य महिलानां कन्यानां च कृते वर्षं 2025 आनन्दस्य सशक्तीकरणस्य च वर्षत्वेन अभवत्। अस्मिन् वर्षे गतस्य मासस्य अन्ते मुख्यमंत्री डॉ. मोहनयादवस्य अध्यक्षतायां सम्पन्नायां मन्त्रिपरिषदः सभायां “मुख्यमंत्री लाड़ली बहना योजना” अन्तर्गतं मासिकसहायाराशेः 1250 रूप्यकात् 1500 रूप्यकपर्यन्तं वृद्धिः कर्तव्या इति महत्त्वपूर्णः निर्णयः कृतः। अस्मात् निर्णयात् प्रदेशव्यापिनीनां लक्षाधिकानां महिलानां मुखेषु हर्षः प्रस्फुटितः। अयं निर्णयः महिलानां आर्थिकस्वावलम्बनस्य दिशायां एकः सुदृढः पादः मन्यते।
मुख्यमंत्री मोहनयादवेन एषा योजना महिलानां आत्मनिर्भरत्वस्य मार्गः इति प्रतिपादिता। अस्याः योजनायाः प्रभावेण अनेकाः महिलाः लघुव्यवसायान् आरब्धवत्यः सन्ति, बालानां शिक्षायां साहाय्यं प्राप्तवन्त्यः सन्ति, आर्थिकसुरक्षा अपि वर्धिता। महिला एवं बालविकासमन्त्री निर्मला भूरियाया कथनं यत् लाड़ली बहना योजनया प्रदेशस्य ग्रामीणक्षेत्रेषु निवसन्त्यः भगिन्यः स्वव्यवसायं स्थापयन्ति, बालानां विद्यालयशुल्कं वहन्ति। मुख्यमंत्री डॉ. यादवः आर्थिकदृष्ट्या भगिनीः स्वावलम्बिन्यः कर्तुं नित्यं नवीनयोजनानां प्रवर्तनाय तत्परः अस्ति।
विधानसभायां अपि तेन उक्तं यत् एषा योजना निरन्तरं प्रवर्तिष्यते, लाभार्थिनां पञ्जीकरणं, राशिवृद्धिः इत्यादिषु विषयेषु विभागः सदैव विचारं करोति। पिछड़ावर्गकल्याणमन्त्री कृष्णा गौरः अवदत् यत् प्रदेशस्य मुख्यमन्त्री एतत् संकल्पं कृतवान् यत् अद्य प्रदेशस्य भगिन्यः बाध्यतायाः जीवनं न, अपि तु सुदृढतायाः जीवनं यापयिष्यन्ति। प्रदेशसरकारा प्रधानमन्त्रिणा नरेन्द्रमोदिना दृष्टं स्वप्नं साकारं करोति।
महिलासशक्तीकरणस्य दृढाधाररूपा लाड़ली बहना योजना
अस्याः योजनायाः घोषणा पूर्वमुख्यमन्त्री शिवराजसिंहचौहानः नर्मदाजयन्त्याः अवसरें कृतवान्, तथा च सा पञ्चममार्च 2023 तमे दिने औपचारिकरूपेण प्रवर्तिता। योजनायाः प्रारम्भिकचरणे पात्रमहिलाभ्यः प्रतिमासं 1000 रूप्यकाणि दीयन्ते स्म। अनन्तरं वार्षिकसहायाराशिः 12000 रूप्यकाणि अभवत्। ततः मासिकसहायाराशिः 1250 रूप्यकपर्यन्तं वर्धिता। अधुना वर्षे 2025 सा 1500 रूप्यकपर्यन्तं वर्धिता, येन महिलानां मासिकआर्थिकसहायाः अधिकं सुदृढा अभवत्।
वर्षे 2025 रक्षाबन्धने दीपावल्यां च विशेषोपहारःवर्षे 2025 लाड़ली बहनाभ्यः सरकारया विभिन्नावसरेषु विशेषसौगाताः अपि दत्ताः। मुख्यमंत्री डॉ. मोहनयादवेन रक्षाबन्धनपर्वणि 250 रूप्यकाणां अतिरिक्तराशेः दानं घोषितम्, या पश्चात् लाभार्थिनां कोषेषु प्रेषिता। ततः दीपावल्याः अनन्तरं मासिकसहायाराशेः 1500 रूप्यकपर्यन्तं वृद्धेः निर्णयः कृतः, येन महिलानां हर्षः द्विगुणितः।
सर्वकारोऽपि स्पष्टं कृतं यत् सा 2028 वर्षपर्यन्तं चरणबद्धरीत्या मासिकसहायाराशिं 3000 रूप्यकपर्यन्तं वर्धयितुं प्रतिबद्धा अस्ति। एषा घोषणा महिलानां भविष्यं प्रति सरकारस्य दीर्घकालिकदृष्टिं संवेदनशीलतां च दर्शयति।
राशिवृद्धौ महिलानां प्रतिक्रिया
ग्वालियरमण्डलस्य धनेलीग्रामस्य प्रीति मौर्या अवदत् यत् लाड़ली बहना योजना अस्माकं कृते महत् आश्रयः अस्ति। मुख्यमंत्री डॉ. मोहनयादवेन राशिवृद्ध्या एषः आश्रयः अधिकं सुदृढः कृतः। भदरौलीग्रामस्य मोनी अवदत् यत् अस्याः योजनायाः द्वारा न केवलं धनराशिः, अपि तु आत्मविश्वासः अपि लभ्यते, यं मुख्यमंत्रीभ्रात्रा अधिकं वर्धितः। भोपालनगरस्य लाभार्थिनी पिंकी जैन अवदत् यत् योजनायाः लाभेन भगिन्यः सशक्ताः अभवन्। अहं पापडनिर्माणाय यन्त्रं स्थापितवती अस्मि।
2025 महिलानां आत्मनिर्भरभविष्यस्य दिशायां दृढः पादः
समग्रतया, वर्षं 2025 मध्यप्रदेशस्य कन्यानां महिलानां च कृते ऐतिहासिकं वर्षं भविष्यति। लाड़ली बहना योजनायां राशिवृद्ध्या स्पष्टं जातं यत् राज्यसरकारा महिलासशक्तीकरणं केवलं घोषणारूपेण न मन्यते, अपि तु ठोसनीतिरूपेण प्रभावीरूपेण च अग्रे नयति। अयं निर्णयः केवलं आर्थिकसहायारूपः न, अपि तु महिलानां सम्मानं, सुरक्षा, आत्मनिर्भरता च प्रति सुदृढं सन्देशं दातुं कृतः प्रयासः अपि अस्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani