प्रधानमन्त्री मोदी पुरातनं संस्कृतश्लोकं सार्वजनिकं कृतवान्
नवदेहली, 24 दिसंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे एकं प्राचीनं संस्कृतश्लोकं सामाजिकपटले ‘एक्स्’ इत्यत्र सार्वजनिकं कृतवान्। अस्मिन् श्लोके प्रामाणिकपण्डितस्य अर्थात् विदुषः परिभाषा निरूपिता अस्ति। प्रधानमन्त्रिणा सार्वजनिकं कृतं
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


नवदेहली, 24 दिसंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे एकं प्राचीनं संस्कृतश्लोकं सामाजिकपटले ‘एक्स्’ इत्यत्र सार्वजनिकं कृतवान्। अस्मिन् श्लोके प्रामाणिकपण्डितस्य अर्थात् विदुषः परिभाषा निरूपिता अस्ति। प्रधानमन्त्रिणा सार्वजनिकं कृतं संस्कृतसुभाषितं निम्नलिखितम् अस्ति -

यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः।

समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते॥

अस्य श्लोकस्य भावार्थः एषः यत् यस्य पुरुषस्य कर्मणि शीतोष्णावस्थाः, भयम्, आसक्तिः, समृद्धिः वा असमृद्धिः किमपि विघ्नं न कुर्वन्ति, स एव सच्चः पण्डितः इति कथ्यते। अयं श्लोकः चाणक्यनीतेः अथवा प्राचीनसुभाषितसंग्रहात् उद्धृतः इति मन्यते, यः धैर्यस्य, संयमस्य, कर्तव्यनिष्ठायाश्च महत्त्वं प्रतिपादयति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता