Enter your Email Address to subscribe to our newsletters

पटना, 24 दिसम्बरमासः (हि.स.)। भारतीय-जनता-दल (भाजपा) इत्यस्य राष्ट्रीय-कार्यकारी-अध्यक्षः नितिननबीनः अद्य पटना-नगरस्य यात्रायाम् अस्ति। बुधवासरस्य प्रातःकाले सः पटना-नगरे बांसघाट-स्थिते काली-मन्दिरे तथा अखण्डवासिनी-देवी-मन्दिरे पूजाम् अर्चनां च अकरोत्। नबीनः नगरस्य अन्येषु अपि प्रमुखेषु मन्दिरेषु दर्शनं करिष्यति। तदनन्तरं पटना-स्थिते गुरुद्वारे अपि शीर्षनमनं करिष्यति।
राष्ट्रीय-कार्यकारी-अध्यक्षस्य नितिननबीनेन सह प्रदेशाध्यक्षः संजयसरावगी अपि उपस्थितः आसीत्। अस्मिन् अवसरे उभौ नेतारौ बिहार-निवासिनां सह देशस्य सर्वेषां नागरिकानां सुखं, शान्तिं, समृद्धिं च कामयामासतुः। मन्दिर-परिसरे दल-कार्यकर्तॄणां समर्थकानां च उल्लेखनीया उपस्थितिः आसीत्।
उल्लेखनीयम् अस्ति यत् नितिननबीनः मङ्गलवासरे पटना-नगरे आगतः। तस्य स्वागतं बिहार-भाजपा-दलस्य द्वारा विशाल-शक्ति-प्रदर्शनरूपेण परिवर्तितम्। पटना-नगरस्य मार्गेषु प्रायः षट् किलोमीटर-दीर्घः रोड-शो आयोजितः अभवत्। तदनन्तरं मिलर-स्कूल-ग्राउण्डे भव्यः अभिनन्दन-समारोहः अपि आयोजितः।
नितिन् नबीनः भाजपा-प्रदेश-कार्यालये भाजपा-विधानमण्डल-दलस्य नेतृभिः सह महत्त्वपूर्णां बैठकाम् अपि अकरोत्। राष्ट्रीय-कार्यकारी-अध्यक्ष-पदस्य उत्तरदायित्वं स्वीकृत्य एषः नितिननबीनस्य प्रथमः बिहार-भ्रमणः अस्ति।
हिन्दुस्थान समाचार