प्रधानमन्त्री नरेन्द्र मोदी एलवीएम3–एम6 तथा ब्लूबर्ड–ब्लॉक–2 प्रक्षेपणयोः सफलतायै वैज्ञानिकान् अभिनन्दितवान्
नवदेहली, 24 दिसंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी एलवीएम3–एम6 प्रक्षेपकस्य सफलप्रक्षेपणेन तथा अमेरिकादेशस्य ब्लूबर्ड–ब्लॉक–2 अन्तरिक्षयानस्य लक्षितकक्षायां संस्थापनस्य अवसरं निमित्तीकृत्य भारतीयान् अन्तरिक्षवैज्ञानिकान् अभियन्तॄंश्च अभिनन
प्रधानमंत्री नरेंद्र मोदी


नवदेहली, 24 दिसंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी एलवीएम3–एम6 प्रक्षेपकस्य सफलप्रक्षेपणेन तथा अमेरिकादेशस्य ब्लूबर्ड–ब्लॉक–2 अन्तरिक्षयानस्य लक्षितकक्षायां संस्थापनस्य अवसरं निमित्तीकृत्य भारतीयान् अन्तरिक्षवैज्ञानिकान् अभियन्तॄंश्च अभिनन्दितवान्। सः अवदत् यत् एषा उपलब्धिः भारतस्य महत्भार–प्रक्षेपणक्षमतां, अन्तरिक्षक्षेत्रे वर्धमानां व्यावसायिकसहाभागितां च आत्मनिर्भरभारत–अभियानं च नूतनया दृढतया सशक्तं करोति।

प्रधानमन्त्री अवदत् यत् एलवीएम3–एम6 भारतीयभूमेः अद्यावधि सर्वाधिकभारयुक्तं उपग्रहं कक्षायां संस्थाप्य देशस्य प्रक्षेपणसामर्थ्यं विस्तारितवान्। एषा सफलताः भविष्यस्य गगनयान–मानव–अन्तरिक्ष–अभियानं, व्यावसायिकप्रक्षेपणसेवानां विस्तारं तथा वैश्विक–अन्तरिक्ष–सहकार्यं अधिकं सुदृढं करिष्यति।

प्रधानमन्त्री एक्स–मञ्चे लिखितवान् यत् एतत् प्रक्षेपणं वैश्विके व्यावसायिके अन्तरिक्ष–विपणे भारतस्य उदयमानां विश्वसनीयतां पुष्टयति। सः वैज्ञानिकानां अभियन्तॄणां च परिश्रमस्य प्रशंसां कृत्वा अवदत् यत् अन्तरिक्षक्षेत्रे भारतः निरन्तरं नूतन–उन्नतिशिखराणां प्रति अग्रसरः अस्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता