राष्ट्रपतिः बरगढ-धनुयात्रायाः अवसरे देशवासिभ्यः हार्दिकाः शुभेच्छाः अर्पितवती
नवदेहली, 24 दिसंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः ओडिशाराज्यस्य बरगढ़-नगरे आयोज्यमानायाः प्रसिद्धायाः धनुयात्रायाः अवसरे देशस्य जनान्, विशेषतया ओडिशाराज्यनिवासिनः प्रति हार्दिकाः अभिनन्दनाः शुभाशयांश्च अर्पितवती। तया उक्तं यत् धनुयात्राया
राष्ट्रपति द्रौपदी मुर्मू


नवदेहली, 24 दिसंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः ओडिशाराज्यस्य बरगढ़-नगरे आयोज्यमानायाः प्रसिद्धायाः धनुयात्रायाः अवसरे देशस्य जनान्, विशेषतया ओडिशाराज्यनिवासिनः प्रति हार्दिकाः अभिनन्दनाः शुभाशयांश्च अर्पितवती। तया उक्तं यत् धनुयात्रायाः विशालं मुक्ताकाशीयं रंगमञ्चं तस्याश्च अनन्या परम्परा अस्याः यात्रायाः राष्ट्रीय-अन्ताराष्ट्रिय-स्तरे विशिष्टम् अभिज्ञानं ददाति।

राष्ट्रपतिः द्रौपदी मुर्मुः एक्स्-पटले अवदत् यत् धनुयात्रायां पौराणिककथानाम् आधारेण प्रस्तुतं जीवनम् अभिनयात्मकाः प्रस्तुतयः समाजे आध्यात्मिकचेतनां सांस्कृतिकगौरवं च वर्धयिष्यन्ति। तया भव्यायाः यात्रायाः सफलाय आयोजनाय आयोजकेभ्यः सहभागिभ्यश्च नागरिकेभ्यः शुभाशयाः अपि प्रदत्ताः। उल्लेखनीयं यत् धनुयात्रा ओडिशाराज्यस्य बरगढ़-नगरे प्रतिवर्षं आयोज्यमानः प्रमुखः धार्मिकः सांस्कृतिकश्च उत्सवः अस्ति, यः स्वस्य मुक्ताकाशीय-रंगमञ्चे प्रस्तूयमानानां पौराणिककथानां सजीवचित्रणेन प्रसिद्धः अस्ति। एषा यात्रा स्थानीयसांस्कृतिकन्यासस्य धार्मिकश्रद्धायाः तथा सामुदायिकसहयोगस्य प्रतीकरूपेण अपि मान्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता