राहुलगान्धिना व्यापारिणां समस्याः श्रुताः
नवदेहली, २४ दिसम्बरमासः (हि.स.)। काङ्ग्रेसदलस्य पूर्वाध्यक्षः तथा लोकसभायां विपक्षनेता राहुलगान्धी अत्र वैश्यसमाजस्य प्रतिनिधिभिः सह समागम्य व्यापारजगतः समस्याः अश्रौषीत्। अस्य संवादस्य दृश्यकम् अद्य राहुलगान्धिनः एक्स्-हैण्डलतः प्रसारितम्। अस्मिन
वैश्य समाज के साथ राहुल गांधी


नवदेहली, २४ दिसम्बरमासः (हि.स.)। काङ्ग्रेसदलस्य पूर्वाध्यक्षः तथा लोकसभायां विपक्षनेता राहुलगान्धी अत्र वैश्यसमाजस्य प्रतिनिधिभिः सह समागम्य व्यापारजगतः समस्याः अश्रौषीत्। अस्य संवादस्य दृश्यकम् अद्य राहुलगान्धिनः एक्स्-हैण्डलतः प्रसारितम्।

अस्मिन् समागमे पादत्राणनिर्माण-, कृषि-उत्पाद-, औद्योगिक-विद्युत्-उपकरण-, कर्गदलेखनसामग्री-, यात्रा, शिलाकर्तनम्, रसायन- तथा हार्डवेयर्-इत्यादि विविधक्षेत्रेषु सम्बद्धाः व्यापारिणः सहभागं कृतवन्तः। प्रतिनिधिभिः वर्तमान-आर्थिकनीतीषु चिन्ता व्यक्ता, तथा उक्तं यत् लघु-व्यापारिणां तथा एम्-एस्-एम्-ई (सूक्ष्म-लघु-मध्यम-उद्यमानां) उपरि प्रत्यक्षः भारः वर्तते, उत्पादन-आधारिता अर्थव्यवस्था च सङ्कटे अस्ति।

व्यापारिणः अवदन् यत् जीएसटी-व्यवस्था परिष्कारस्य स्थाने उत्पीडनस्य साधनं जातम्। प्राथमिक-द्रव्येषु अधिकः करः, सिद्ध-उत्पादेषु न्यूनः करः च लघु-उत्पादकान् हानौ नयति। मूल्यवृद्धिः, रोजगार-अवसराणां न्यूनता, आयाते वर्धमाना आश्रितता च विषये अपि ते चिन्तां प्रकटितवन्तः।

संवादकाले राहुलगान्धी व्यापारिणां कथाः श्रुत्वा अवदत् यत् सः पूर्वमेव सचेतनां दत्तवान् आसीत्—एकाधिकार-आधारितं शासन-संरचनां लघु-व्यापारिणः तथा उद्यमिनः विनाशयिष्यति। सः जीएसटी-व्यवस्थां “गब्बर-सिंह-करः” इति अपि उक्तवान्।

अग्रवालसमुदायस्य प्रतिनिधयः अवदन् यत् एतत् महाराज-अग्रसेनस्य समानतावादी-आर्थिक-चिन्तनस्य परम्परां अग्रे नयति। ते उत्पादनं तथा रोजगारसृजनं प्रति महत्त्वपूर्णां भूमिकां निर्वहन्ति, किन्तु वर्तमा-नीतीषु ते उपेक्षां शोषणं च अनुभवन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani