Enter your Email Address to subscribe to our newsletters

विशाखापट्टनम्, 24 दिसंबरमासः (हि.स.)।
भारतीयमहिलाक्रिकेटदलस्य प्रारम्भिकबल्लेबाजिका शेफालीवर्मा अवदत् यत् क्रिकेटं ताम् निरन्तरं शिक्षयति, तथा च उत्तमक्रीडिका भवितुं स्वस्य दुर्बलताः स्वीकर्तुं अत्यन्तम् आवश्यकम् अस्ति। सा एतत् वक्तव्यम् मङ्गलवासरे विशाखापट्टनमनगरे खेले द्वितीये टी–२० अन्ताराष्ट्रियप्रतियोगितायां श्रीलङ्कादेशस्य विरुद्धं भारतदलस्य सप्तविकेटैः विजयस्य अनन्तरं अवदत्।
अस्मिन् प्रतियोगितायां शेफालीवर्मा चतुस्त्रिंशत् कन्दुकैः उनसप्ततिं (६९) रनान् अविजितरूपेण कृत्वा उत्कृष्टां पारीं कृतवती, येन सा “प्लेयर् आफ् दि मॅच्” इति सम्मानं प्राप्तवती। प्रतियोगितानन्तरं स्वक्रीडायां जातानां परिवर्तनानां आत्मविश्वासस्य पुनरागमनस्य च विषये वक्तुम् आरभ्य सा अवदत् यत् बल्लेबाजीमध्ये विद्यमानानां दोषाणां बोधः तेषु परिश्रमश्च तस्याः कृते अत्यन्तं महत्त्वपूर्णः आसीत्।
शेफाली अवदत्—
“क्रिकेटं सदा किञ्चन नूतनं शिक्षयति। स्वदुर्बलतानां स्वीकारः अत्यावश्यकः अस्ति, तेनैव सुधारः सम्भवति। प्रारम्भे कन्दुकः किञ्चित् स्थगितः आगच्छत्, अतः अहं भूमौ क्रीडया एकैकान् रनान् ग्रहीतुं प्रयासं कृतवती। आरम्भिकेषु ओवरेषु कन्दुकक्षेपकाः उत्तमां कन्दुकक्षेपणं कृतवन्तः, किन्तु पश्चात् परिस्थितिः अस्माकं पक्षे अभवत्।”
सा मुख्यप्रशिक्षकं अमोलमजूमदारं प्रति कृतज्ञतां व्यक्तवती तथा कठिनपरिस्थितिषु कथं बल्लेबाजी कर्तव्या इति विषये विशेषमार्गदर्शनं प्राप्तमिति अवदत्। शेफाली अवदत्—
“प्रशिक्षकेन मां प्रथमं भूमौ क्रीडितुं, ततः अवसरप्राप्तौ आकाशमार्गे प्रहारं कर्तुं उपदिष्टम्। अहं स्वयम् शान्तां स्थितिं धारयित्वा भूमौ क्रीडितवती, यदा कन्दुकः सम्यक् आगच्छत् तदा रनान् अर्जितवती। मम दृढः विश्वासः अस्ति यत् यदि अहं भूमौ क्रीडामि तर्हि अवश्यं रनान् करिष्यामि।”
उल्लेखनीयं यत् चोटग्रस्तायाः प्रतीकारावलस्य स्थाने शेफालीवर्मा एकदिवसीयविश्वकपस्य सेमीफाइनल् तथा फाइनल् प्रतियोगितायां दलं पुनः प्रविष्टवती। दक्षिणआफ्रिकादेशस्य विरुद्धं फाइनल् प्रतियोगितायां सा अर्धशतकं कृत्वा द्वौ विकेटौ अपि गृहीतवती।
पूर्वं अस्मिन् प्रतियोगितायां भारतदलेन टॉस् जित्वा प्रथमं कन्दुकक्षेपणं चयनितम्। श्रीलङ्कादेशस्य कप्तानिका चमारीअटापट्टू पावरप्ले मध्ये आक्रामकप्रारम्भं कृत्वा भारतीयकन्दुकक्षेपकान् दबावं दत्तवती। किन्तु स्नेहराणायाः आगमनेन प्रतियोगितायाः प्रवाहः परिवर्तितः। अस्वस्थायाः दीप्तिशर्मायाः स्थाने क्रीडन्ती राणा चतुर्षु ओवरेषु केवलं एकादश रनान् दत्त्वा अटापट्टूविकेटं गृहीत्वा श्रीलङ्कादेशस्य रनगतौ विरामं कृतवती।
अटापट्टूविकेटपाते सति श्रीलङ्कादेशस्य पारी विचलिता। हर्षितासमरविक्रमया संघर्षः कृतः, किन्तु अन्यस्मात् छोरात् साहाय्यं न प्राप्तम्। भारतीयस्पिनकन्दुकक्षेपकैः निरन्तरं दबावः स्थाप्यते स्म। वैष्णवीशर्मा महत्त्वपूर्णानि विकेटानि गृहीतवती, श्रीचरनी च प्रथमप्रतियोगितायां दुर्बलप्रारम्भात् उन्मुक्त्वा द्वौ बल्लेबाजौ पवेलियनं प्रेषितवती। त्रयः रनआउटाः अपि श्रीलङ्कादेशाय हानिकराः अभवन्, येन सम्पूर्णदलः साधारणस्कोरे एव सीमितः।
लक्ष्यानुसरणकाले भारतदलस्य प्रारम्भे स्मृतिमन्धानाः षोडश रनान् कृत्वा निष्क्रान्ता, किन्तु ततः शेफालीवर्मा मोर्चां स्वहस्ते गृहीतवती। सा स्पिन् तथा वेगकन्दुकक्षेपणयोः विरुद्धं आक्रामकेन प्रकारेण रनान् सङ्गृहीतवती। इनोकारणवीरा शशिनीगिम्हानी च तस्याः आक्रामकबल्लेबाज्याः शिकारौ अभवताम्। चमारीअटापट्टोः एकस्मिन् ओवरे शेफाली चत्वारि, षट्, चत्वारि इति प्रहारान् कृतवती। अन्यस्मिन् छोरात् जेमिमारोड्रिग्स् अपि तीव्रगत्या रनान् कृत्वा उत्तमं साहाय्यं कृतवती, येन भारतदलेन द्वादशमे ओवरे एव प्रतियोगिता स्वनाम्ना कृता।
---------------
हिन्दुस्थान समाचार