प्रत्येकं उत्तराखण्डीयस्य कृते बडोनी आदर्शाः सन्ति - मुख्यमन्त्री
देहरादूनम्, 24 दिसंबरमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी पर्वतीयगान्धी तथा राज्यआन्दोलनकारी इन्द्रमणि-बडोनी इत्यस्य जयन्त्यवसरे तेषां भावपूर्णं स्मरणं कृत्वा उत्तराखण्ड-राज्यनिर्माण-आन्दोलने तेषां त्यागं सक्रियं च सहयोगं स्मारितवान्। मुख्यमन्
मुख्यमंत्री पुष्कर सिंह धामी  राज्य आंदोलनकारी इंद्रमणि बडोनी के चित्र पर पुष्प अर्पित करते।


देहरादूनम्, 24 दिसंबरमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी पर्वतीयगान्धी तथा राज्यआन्दोलनकारी इन्द्रमणि-बडोनी इत्यस्य जयन्त्यवसरे तेषां भावपूर्णं स्मरणं कृत्वा उत्तराखण्ड-राज्यनिर्माण-आन्दोलने तेषां त्यागं सक्रियं च सहयोगं स्मारितवान्। मुख्यमन्त्री अवदत् यत् इन्द्रमणि-बडोनी प्रत्येकं उत्तराखण्डीयस्य कृते आदर्शाः सन्ति।

मुख्यमन्त्री-आवासे बुधवासरे मुख्यमन्त्री राज्यआन्दोलनकारी इन्द्रमणि-बडोनी इत्यस्य जयन्त्यवसरे तेषां चित्रे पुष्पाणि अर्पयित्वा श्रद्धाञ्जलिं समर्पितवान्। अस्मिन् अवसरे मुख्यमन्त्री अवदत् यत् तेषां सम्पूर्णं जीवनं सङ्घर्ष-त्याग-जनसेवायै समर्पितम् आसीत्। तैः उत्तराखण्ड-राज्य-आन्दोलनाय दिशा जनशक्तिश्च प्रदत्ता। तेषां विचाराः, सङ्कल्पः राज्यहितस्य प्रति निःस्वार्थः सेवा-भावश्च अद्यापि अस्माकं सर्वेषां कृते प्रेरणास्रोतः सन्ति। सः अवदत् यत् राज्य-सर्वकारः तेषाम् आदर्शान् अनुसृत्य उत्तराखण्डं देशस्य सर्वश्रेष्ठं राज्यं कर्तुं सततं कार्यं करोति।----------------

हिन्दुस्थान समाचार / अंशु गुप्ता