Enter your Email Address to subscribe to our newsletters


-आगरायाः ऐतिहासिक गिरजागृहेषु सज्जा पूर्णा
आगरा, 24 दिसंबरमासः (हि.स.)।
उत्तरप्रदेशस्य आगरानगरे स्थितेषु ऐतिहासिकेषु गिरजागृहेषु बुधवासरस्य रात्रौ द्वादशवादने प्रभुयेशुख्रीष्टस्य जन्मोत्सवस्य निमित्तं मसीहीसमाजस्य सज्जा अत्यन्तं उत्कर्षे अस्ति। गिरजाघरेषु सर्वत्र हर्षस्य उत्साहस्य च वातावरणं व्याप्तम् अस्ति। मसीहीसमाजस्य गृहेषु अपि गिरजागृहेषु च प्रभोः आगमनस्य सज्जा गतस्य दिसम्बरमासस्य प्रथमदिनात् आरभ्य निरन्तरं प्रवर्तते। गृहे–गृहे सायंकाले कैरोलगीतगायनेन वातावरणं संगीतमयं जातम् अस्ति। गतसप्ताहात् गिरजाघराणि सतरङ्गप्रकाशैः अलङ्कर्तुं सज्जा क्रियते स्म, या अद्य स्वस्य अन्तिमरूपं प्राप्तवती। कैथोलिक, मेथाडिस्ट, प्रोटेस्टेण्ट इत्यादिसर्वेषां विचारधाराणां गिरजाघरेषु कोणे–कोणे स्वच्छता कृत्वा तानि सुन्दररूपेण सज्जीकृतानि सन्ति।
मुख्यजन्मोत्सवकार्यक्रमाः अद्य रात्रौ आग्रानगरे स्थिते ऐतिहासिके सेंट् पीटर्स् गिरजाघरे अकबरीचर्च इति प्रसिद्धे आयोज्यन्ते। बुधवासरस्य रात्रौ द्वादशवादने एव सेंट् पीटर्स् गिरजाघरे स्थापितस्य विशालघण्टानिनादेन सह प्रभुयेशुजन्मस्य उद्घोषणा भविष्यति, ततः विशेषप्रार्थनासभाः आरभ्यन्ते।
क्रिस्मसोत्सवस्य अवसरं प्रति आग्रावजीरपुरास्थितं सेंट् पीटर्स् गिरजागृहं भव्यतया अलङ्कृतम् अस्ति, यत्र एका विशालप्रदर्शनी अपि आयोजिता अस्ति। अस्यां प्रदर्शिन्यां पञ्चदशफुटोन्नतः क्रिस्मसवृक्षः, सान्ताक्लॉस्, प्रभुयेशुमसीहस्य चरणी इत्यादयः प्रायः दशप्रदर्शिन्यो जनान् आकर्षयिष्यन्ति। अस्मिन् वर्षे बाइबलग्रन्थः क्रिस्मसथीमरूपेण सेंट् पीटर्स् गिरजागृहस्य बहिः स्थापितः अस्ति, यस्य परिमाणं दशगुणाविंशतिफुटम् अस्ति। एषः एव सर्वासां प्रदर्शिनीनां प्रमुखः आकर्षणकेन्द्रबिन्दुः अस्ति।
सेंट् पीटर्स् गिरजाघरस्य फादर् राजन् दासः अवदत् यत् प्रभुयेशुमसीहस्य जन्मदिनं संस्मरणीयं कर्तुं गतपञ्चदशदिनात् मसीहीसमाजः निरन्तरं परिश्रमे संलग्नः अस्ति। अस्मिन् वर्षे सेंट् पीटर् गिरजाघरपरिसरे भव्यप्रदर्शनी आयोजिता अस्ति, यस्य प्रमुखा थीम बाइबलग्रन्थः एव अस्ति। दशगुणाविंशतिफुटपरिमाणस्य अस्य विशालबाइबलस्य दर्शनं करुणा, प्रेम, भ्रातृत्वस्य च सन्देशं ददाति।
सेंट् पीटर्स् गिरजाघरस्य अपरः फादर् आशीषः अवदत् यत् चतुर्विंशतिदिसम्बरस्य रात्रौ विशेषप्रार्थनासभा भविष्यति, पञ्चविंशतिदिसम्बरस्य प्रभाते च गिरजाघरं श्रद्धालूनां कृते उद्घाटितं भविष्यति। अस्मिन् वर्षे प्रायः द्विलक्षपरिमिताः श्रद्धालवः, दर्शकाः, सहभागिनश्च आगमनं करिष्यन्ति इति सम्भावना अस्ति। एतस्य अनुमानस्य आधारेण एव सर्वाः व्यवस्थाः पूर्वमेव कृताः सन्ति।
आग्रा नगरं कैथोलिकमेथाडिस्टयोः उभयोः ईसाईसमुदाययोः आस्थाकेंद्ररूपेण प्रसिद्धम् अस्ति, तत्र सम्बद्धानां गिरजागृहाणां च ऐतिहासिकं महत्त्वं विद्यते।
ताजमहलादपि प्राचीनः सेंट् पीटर्स् गिरजाघरः अकबरीचर्च इति प्रसिद्धः अस्ति। एषः उत्तरभारतस्य प्रथमः प्राचीनतमश्च ईसाईगिरजागृहं मन्यते। मुगलसम्राट् अकबरः सन १५९९ तमे वर्षे आग्रानगरे वजीरपुराक्षेत्रे अस्य निर्माणं कारितवान्। अद्यापि एषः गिरजाघरः पर्यटकानां कृते आकर्षणकेंद्रं वर्तते। ईसाईधर्मावलम्बिनः एव न, अन्यधर्मीयाः अपि अत्र आगच्छन्ति। क्रिस्मसोत्सवे अत्र महता धूमधाम्ना कार्यक्रमाः आयोज्यन्ते।
ईसाईसमाजस्य मतानुसारं अस्य गिरजाघरस्य निर्माणं जेसुइटपादरी जेवियरस्य निरीक्षणे अभवत्। निर्माणकार्यं प्रायः एकवर्षपर्यन्तं प्रवृत्तम्। सन १५९९ तमे वर्षे आरब्धं निर्माणं सन १६०० तमे वर्षे पूर्णं जातम्। एषः अकबरीचर्चः ताजमहलात् अपि प्राचीनः अस्ति। अधुना एषः सेंट् पीटर्स् गिरजाघरः इति नाम्ना ख्यातः, ‘मदर् मेरी महागिरजाघर’ इति अपि कथ्यते। एषः मुगलकालस्य प्रथमः ईसाईगिरजाघरः अस्ति तथा आग्राकैथोलिकसमुदायस्य महत्त्वपूर्णं केन्द्रम्।
इतिहासे वर्ण्यते यत् अकबरस्य शासनकाले लाहौरतः एकः जेसुइटपादरी जेवियरः आग्रानगरं प्राप्तवान्। तेन प्रभुयेशुमसीहस्य उपासनायै नगरमध्ये एकस्य स्थानस्य याचना कृता। तदा अकबरः स्वस्य बेगम मरियमस्य परामर्शेण वजीरपुराक्षेत्रे तस्मै स्थानं प्रदत्तवान्। तस्मिन्नेव स्थाने गिरजाघरं निर्मितम्, अतः अद्यापि एतत् अकबरस्य गिरजाघरः इति प्रसिद्धम्।
अकबरेण प्रदत्ते एव पूजास्थले इटलीदेशीयः बिशप् बोर्गी सन १८४८ तमे वर्षे रोमनकैथोलिकगिरजाघरस्य निर्माणं कारितवान्। तेन १८४२ तमे वर्षे सेंट् पैट्रिक् विद्यालयः, १८४६ तमे वर्षे सेंट् पीटर्स् महाविद्यालयः च निर्मितौ। निष्कलङ्कमातुः मरियमायाः समर्पितः अयं गिरजाघरः इतालवीवास्तुकलायाः सुन्दरं उदाहरणम् अस्ति। अत्र ईसामातुः मरियमायाः विशालमूर्तिः स्थापिताऽस्ति। सन १९१० तमे वर्षे इटलीदेशात् त्रयः नूतनघण्टाः अत्र आनिताः, शेषौ द्वौ घण्टौ अकबरकालीनौ एव आसताम्। रोमनकैथोलिकसम्प्रदायस्य आग्रानगरे एषः सर्वातिबृहद्गिरजाघरः अस्ति।
मातामरियमायै समर्पितं सेंट् मेरी गिरजाघरं आग्रानगरे प्रतापपुराक्षेत्रे स्थितं द्वितीयं बृहद्गिरजाघरम् अस्ति। कैथोलिकसमुदाये अतीव महत्त्वपूर्णं मन्यमानं एतत् गिरजाघरं निर्मातुं पञ्चचत्वारिंशद्वर्षाणि व्यतीतानि। समाजे विश्वासः अस्ति यत् एषः चमत्कारिकः गिरजाघरः। श्रद्धालवः मन्यन्ते यत् अत्र आगतः कोऽपि रिक्तहस्तः न प्रतिगच्छति। सन १९२० तमे वर्षे जॉन्स् मिल् नामकायाः संस्थायाः स्वामिनः जॉन्स् परिवारः चर्चनिर्माणाय भूमिदानं कृतवान्। सन १९२३ तमे वर्षे फादर् राफेलः अस्य गिरजाघरस्य शिलान्यासं कृतवान्। ततः निरन्तरं पञ्चचत्वारिंशद्वर्षपर्यन्तं निर्माणकार्यं प्रवृत्तम्। सन १९६८ तमे वर्षे गिरजाघरं पूर्णं जातम्। एषः गिरजाघरः प्रभुयेशुमसीहस्य माता मरियमायै समर्पितः कृत्वा सेंट् मेरी गिरजाघरः इति नाम्ना अभिहितः।
आग्रानगरे एव मेथाडिस्टसमुदायस्य पञ्चत्रिंशदधिकशतवर्षप्राचीनः सेंट्रल् मेथाडिस्ट् गिरजाघरः कलेक्ट्रेटसमीपे एम् जी मार्गे स्थितः अस्ति। अस्य निर्माणं सन १८८८ तमे वर्षे फादर् होल्मनः कारितवान्। अस्य गिरजाघरस्य सह प्रायः पञ्चसहस्राणि सदस्याः सम्बद्धाः सन्ति, ये सर्वेषु पर्वोत्सवेषु अत्र आगच्छन्ति। चर्चस्य असोसिएट् प्रीस्ट् अर्पण् जैकबः अवदत् यत् अस्य गिरजाघरस्य महत्त्वपूर्णं पुरातनदत्तांशः अग्निकाण्डे नष्टः जातः, अतः सम्पूर्णइतिहासस्य स्पष्टा जानकारी न उपलब्धा। तथापि एतत् निश्चयेन ज्ञायते यत् सन १८८८ तमे वर्षे फादर् होल्मनः अस्य निर्माणं कृतवान्। सेंट्रल् मेथाडिस्ट् गिरजाघरपरिसरे होल्मन् इन्स्टिट्यूट् नामकं शिक्षणसंस्थानं अपि सञ्चालितम् अस्ति।
आग्रानगरे अन्ये अपि केचन प्रमुखाः गिरजाघराः सन्ति। खन्दारीक्षेत्रे स्थितं टीन् का गिरजा इति प्रसिद्धं सेंट् पॉल्स् गिरजाघरं सन १८४० तमे वर्षे शिलान्यासं प्राप्य सन १८५५ तमे वर्षे पूर्णं जातम्। सन १८५२ तमे वर्षे आपत्तिकाले अयं गिरजाघरः जनानां कृते जीविकासाधनं अपि अभवत्। ब्रिटिशशासकैः अस्य कृते भूमिः प्रदत्ता आसीत्। आरम्भे एषः गिरजाघरः लौहतिनशेडे आरब्धः, अतः अद्यापि ‘टीन् का गिरजा’ इति नाम्ना प्रसिद्धः।
सदरबाजारे स्थितं सेंट् जॉर्जेस् गिरजाघरं सन १८२८ तमे वर्षे आङ्ग्लसैनिकानां कृते निर्मितम्। अस्य स्थापत्यशैली आङ्ग्लीयां परम्परां अनुसरति। बहिः सुन्दरं दृश्यते, अन्तः अपि अत्यन्तं रमणीयम् अस्ति। पूर्वदिशि विशालः पूजास्थलः अस्ति, यत्र पुरोहितैः प्रार्थनासभा सञ्चाल्यते।
हैवलॉक् गिरजाघरः चर्च् ऑफ् नॉर्थ् इण्डिया इत्यस्य अन्तर्गतः अस्ति। एषः प्रोटेस्टेण्टसम्प्रदायस्य गिरजाघरः अस्ति। अस्य शिलान्यासः ब्रिटिशकाले सन १८४० तमे वर्षे अभवत्। क्षेत्रफलदृष्ट्या आग्रानगरे एषः प्रोटेस्टेण्टसम्प्रदायस्य सर्वातिबृहद्गिरजाघरः अस्ति। अस्य स्थापत्यशैली मुख्यतया जर्मनदेशीयां परम्परां अनुसरति तथा गोथिकवास्तुकलायाः प्रभावः अत्र दृश्यते।
नगरमध्यभागे स्थितं सेंट् जॉन्स् गिरजाघरं सी एन आई सम्प्रदायस्य अन्तर्गतं अस्ति। हॉस्पिटल् मार्गे स्थितं एतत् गिरजाघरं प्रायः सार्धशतवर्षप्राचीनम् अस्ति। अस्य निर्माणं सन १८५० तमे वर्षे लेफ्टिनेन्ट् कर्नल् जोन् काल्विन् इत्यनेन कारितम्। एतत् ‘कटरे का गिरजा’ इति नाम्ना अपि प्रसिद्धम्।
सिकन्दराक्षेत्रे स्थितायाः मरियम् टॉम्ब् समीपे अपि सेंट् जॉन्स् गिरजाघरः अस्ति, यः सन १८४२ तमे वर्षे निर्मितः।
--------------
हिन्दुस्थान समाचार