प्रयागराजे मत्स्यव्यवसायेन सम्बद्धाः षट् कृषकाः सम्मानिताः
प्रयागराजः, २४ दिसम्बरमासः (हि.स.)। योगीसर्वकारः मत्स्यपालनक्षेत्रे उत्तम-उत्पादनं कुर्वन्तः प्रयागराजजनपदस्य षट् कृषकान् सम्मानिता। एषः सम्मानः पूर्वप्रधानमन्त्रिणः चौधरीचरणसिंहस्य जन्मदिवसे प्रदानः कृतः। एतां सूचनां बुधवासरे प्रयागराजमत्स्यविभागस
प्रयागराज के मछली करोबार का प्रतीकात्मक छाया चित्र


प्रयागराजः, २४ दिसम्बरमासः (हि.स.)। योगीसर्वकारः मत्स्यपालनक्षेत्रे उत्तम-उत्पादनं कुर्वन्तः प्रयागराजजनपदस्य षट् कृषकान् सम्मानिता। एषः सम्मानः पूर्वप्रधानमन्त्रिणः चौधरीचरणसिंहस्य जन्मदिवसे प्रदानः कृतः। एतां सूचनां बुधवासरे प्रयागराजमत्स्यविभागस्य कार्यकारीप्रभारी विजयप्रकाशशुक्लः अददात्।

सः अवदत् यत् केन्द्रस्य मोदिसर्वकारः तथा प्रदेशस्य योगिसर्वकारः मत्स्यजीविनाम् आर्थिकस्थितिं सुदृढीकर्तुं तथा मत्स्य-उत्पादनं वर्धयितुं निरन्तरं प्रोत्साहनं ददाति। अस्य एव अभियानस्य अन्तर्गतं प्रयागराजजनपदे मत्स्यव्यवसायेन सम्बद्धानां षण्णां कृषकाणां चयनं कृतम्।

तस्मिन् क्रमणे मत्स्यविभागेन शंकरगढ़विकासखण्डात् प्रथमपुरस्कारप्राप्तः कृषकः रामलालः चयनितः। तथैव विकासखण्ड-कोरांवात् संकल्पसिंहः, पुरातन-अल्लापुरनिवासी अजय-कुमारः, विकासखण्ड-कोरांवात् गीतादेवी, विकासखण्ड-श्रृंगवेरपुरात् मनीषकुमारः, विकासखण्ड-कौड़िहारात् कुन्दनकुमारः च चयनिताः।

उत्तरप्रदेशसर्वकारेण मत्स्य-व्यवसायेन सम्बद्धे प्रथमपुरस्कारे सप्तसहस्ररूप्यकाणि, द्वितीय-पुरस्कार-प्राप्ते पञ्च-सहस्र-रूप्यकाणि च प्रदानानि कृतानि। एतेन सह कृषिविभागे उत्कृष्ठकार्यं कुर्वन्तः महिलापुरुषकर्मचारिणः अङ्गवस्त्रेण प्रशस्तिपत्रेण च सम्मानिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता