Enter your Email Address to subscribe to our newsletters

नवदेहली, 24 दिसंबरमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णनः तथा केन्द्रीय-गृहमन्त्री अमित-शाहः इसरो-संस्थां एलवीएम3-एम6 राकेटस्य सफल-प्रक्षेपणस्य अवसरे अभिनन्दनानि प्रदत्तवन्तौ। अस्मिन् अभियाने अमेरिकी-अन्तरिक्षयानं ब्लूबर्ड-ब्लॉक-2 नामकम् अल्प-पृथ्वी-कक्षायां सफलतया स्थापितम्। उभौ नेतारौ एताम् उपलब्धिं भारतीय-अन्तरिक्ष-प्रौद्योगिक्यां नेतृत्वस्य तथा देशस्य महत्-भार-प्रक्षेपण-क्षमतायाः सुदृढीकरणस्य कीर्तिंपाषाणरूपेण वर्णितवन्तौ।
उपराष्ट्रपतिः सी.पी. राधाकृष्णनः एक्स-माध्यमे प्रकाशित-सन्देशे अवदत् यत् अस्य मिशनस्य माध्यमेन भारतस्य अन्तरिक्ष-क्षमता तथा वैश्विक-प्रौद्योगिक्यां नेतृत्वं स्पष्टतया प्रदर्शितम्। एलवीएम3-एम6 प्रक्षेपकस्य सफलः प्रक्षेपणः अस्माकं महत्-भार-प्रक्षेपण-क्षमतां अधिकं सुदृढीकृतवान् अस्ति तथा भविष्यस्य मानव-अन्तरिक्ष-अभियानानां वाणिज्यिक-प्रक्षेपण-सेवानां च मार्गं सम्यक् प्रकारेण निर्मास्यति।
केन्द्रीय-गृहमन्त्री अमित-शाहः अपि एक्स-माध्यमे लिखितवान् यत् इसरो-संस्थायाः वैज्ञानिकानां अभियन्तॄणां च समर्पणं परिश्रमं च प्रशंसनीयं भवति। एषा उपलब्धिः भारतस्य वैश्विक-वाणिज्यिक-प्रक्षेपण-जगति वर्धमानां भूमिकां पुष्टयति तथा आत्मनिर्भर-भारत-अभियानस्य दिशायां गौरवपूर्णं पदं भवति। भारतः अन्तरिक्ष-क्षेत्रे निरन्तरं नूतनाः उच्चताः स्पृशन् अग्रसरः भवति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता