Enter your Email Address to subscribe to our newsletters

क्रिसमसस्य विशेषावसरे अक्षयकुमारः स्वफैन्स्भ्यः महत् आश्चर्यं दत्तवान्। अभिनेताऽसौ स्वीयायाः आगामिन्याः चलचित्रस्य ‘वेलकम् टु द जङ्गल्’ सम्बन्धितं विशेषं विडियो दत्तांशं सामाजिक-माध्यमेषु सहाभागिकृतवान्, यः शीघ्रमेव अतिवेगेन प्रसारितः अभवत्। विडियो प्रकाशिते सति चलचित्रं प्रति दर्शकानां कुतूहलम् अधिकमेव वर्धितम्। विशेषतया एतत् यत्, अक्षयकुमारः अस्य चलचित्रस्य माध्यमेनैव चलचित्रस्य प्रदर्शन-समयसूच्याः अपि उद्घाटनं कृतवान्।
कदापि एतादृशीं महतीं चलचित्रं नाभवम् अंशभागी - अक्षयकुमारः
अक्षयकुमारः एतं विडियोम् एक्स् माध्यमे सहाभागिकुर्वन् लिखितवान्—“‘वेलकम् टु द जङ्गल्’ चलचित्रस्य सम्पूर्णदलस्य पक्षेण यूयं सर्वे क्रिसमसस्य हार्दिकाः शुभाशयाः। एतत् चलचित्रं क्रिसमस २०२६ काले चलचित्रगृहेषु प्रदर्शितं भविष्यति। अस्माकं मध्ये कश्चिदपि कदापि एतादृशीं विशालां चलचित्र-परियोजनां नाभवत् अंशभागी। अधुना वयं एतत् उपहारं युष्माकं समक्षं प्रस्तोतुम् अतिशयेन उत्सुकाः स्मः। मित्राणि, चित्रणकार्यं सम्पूर्णम् अभवत्। दलं प्रति अभिनन्दनम्। अस्य निर्माणे सम्मिलितस्य प्रत्येकस्य व्यक्तेः परिश्रमः प्रशंसनीयः अस्ति।”
तारकासमूहैः समलङ्कृता ‘वेलकम् टु द जङ्गल्’
चलचित्रस्य तारकाविन्यासः अपि अस्य प्रमुखं बलं मन्यते। अक्षयकुमारस्य सह एतस्मिन् बहु-तारकयुक्ते हास्यचलचित्रे परेशरावलः, सुनीलशेट्टी, अरशदवारसी, तुषारकपूरः, राजपालयादवः, जैकीश्रॉफः तथा जॉनीलीवरः च मुख्येषु भूमिकासु दृश्यन्ते। तदतिरिक्तं दिशा पाटनी, रवीनाटण्डनः, जैकलिन फर्नाण्डिस् तथा लारा दत्ता अपि चलचित्रे हास्यरसस्य तड्कं योजयन्त्यः दृश्यन्ते। उल्लेखनीयम् अस्ति यत् अभिनेता संजयदत्तः आरम्भे अस्य परियोजनायाः अंशभागी आसीत्, सः प्रायः पञ्चदश-दिनानि चित्रणकार्यं अपि कृतवान्, किन्तु पश्चात् केनचित् कारणेन सः चलचित्रात् निवृत्तः अभवत्।
‘वेलकम्’ फ्रेञ्चैजीइत्यस्य तृतीयः क्रमः
‘वेलकम् टु द जङ्गल्’, अतीव सफलायाः ‘वेलकम्’ फ्रेञ्चैजीस्य तृतीयं चलचित्रम् अस्ति। अस्य निर्माणं फिरोज नाडियाडवाला कृतवान् अस्ति, निर्देशनस्य दायित्वं च पुनः अनीसबज्मीस्य हस्तेषु एव अस्ति। फ्रेञ्चैजीस्य प्रथमं चलचित्रं ‘वेलकम्’ सन् २००७ तमे वर्षे प्रदर्शितम् आसीत्, द्वितीयं चलचित्रं ‘वेलकम् बैक्’ तु सन् २०१५ तमे वर्षे दर्शकानां समक्षं आगतम्। अधुना प्रायः एकदशकानन्तरम् अक्षयकुमारस्य पुनरागमनेन सह एषा श्रृङ्खला पुनः महायवनिकायां हास्यस्य महा झंझावातम् आनयितुं सज्जा अस्ति।
--------------
हिन्दुस्थान समाचार / अंशु गुप्ता