Enter your Email Address to subscribe to our newsletters

नवदेहली, 25 दिसंबरमासः (हि.स.)। देहली-राज्यस्य मुख्यमन्त्री रेखा गुप्ता गुरुवासरे पूर्व-प्रधानमन्त्री भारतरत्न अटलबिहारी वाजपेयी-महोदयस्य जयन्त्यवसरे नेहरू-नगरम् सहितं राजधानी-नगरे विविधेषु क्षेत्रेषु अटल-भोजनालय-योजनायाः शुभारम्भं कृतवती। अस्मिन् अवसरे केन्द्रीय-आवास-नगर-विकास-मन्त्री मनोहरलालः, देहली-राज्यस्य शिक्षामन्त्री आशीष सूदः, विधायकः तरविन्दर सिंह मारवाहः च उपस्थिताः आसन्।
मुख्यमन्त्री सामाजिक-माध्यमे प्रकाशित-सन्देशे अवदत् यत् भारतीय-जनता-पक्षेण स्व-घोषणापत्रे देहली-निवासिभ्यः अटल-भोजनालय-सम्बन्धी यः प्रतिज्ञा कृतः, सः अधुना संकल्पात् सिद्धेः दिशि अग्रसरः अभवत्। प्रथम-चरणे अद्य देहली-नगरे पञ्चचत्वारिंशत् (45) अटल-भोजनालयाः आरब्धाः सन्ति। आगामि-काले पञ्चपञ्चाशत् (55) अन्याः अटल-भोजनालयाः उद्घाटयितुं योजना अस्ति, येन एषा सुविधा अधिकाधिकेषु जनानां पर्यन्तं प्राप्येत।
मुख्यमन्त्री अवदत् यत् दिल्ली-निर्माणे संलग्नाः कर्मयोगिनः, श्रमिकाः, रिक्शा-चालकाः, स्वच्छता-कर्मचारिणः तथा अन्ये परिश्रमशीलाः सहचराः अधुना अत्र केवलं पञ्च-रूप्यक-मूल्ये पौष्टिकं भोजनं प्राप्तुं शक्नुवन्ति। प्रत्येकम् अटल-भोजनालये मध्याह्ने रात्रौ च उभय-कालेषु प्रतिदिनं प्रायः सहस्रं (1000) जनानां भोजन-व्यवस्था कृताऽस्ति।
मुख्यमन्त्री उक्तवती यत् प्रधानमन्त्री नरेन्द्रमोदिमहोदयस्य सेवा, सुशासन तथा दरिद्र-कल्याण-विजनात् प्रेरिता एषा पहल सुनिश्चितं करिष्यति यत् दिल्ली एतादृशी राजधानी भविष्यति, यत्र भोजनं सम्मानपूर्वकं लभ्यते तथा कश्चनापि रिक्त-उदरः न भवेत्। मुख्यमन्त्री अवदत् यत् देहली-नगरे स्थापितासु अटल-भोजनालयेषु स्वच्छं कार्य-क्षेत्रम्, शुद्धं पेय-जलम्, स्टेनलेस्-स्टील-निर्मिताः मेजाः आसनानि च, डिजिटल-टोकन-प्रणाली, रियल्-टाइम्-सीसीटीवी-निरीक्षण-व्यवस्था, सुरक्षितं अपशिष्ट-प्रबन्धनम् तथा पूर्णतया स्वास्थ्यकरं वातावरणं इत्यादयः व्यवस्थाः उपलभ्यन्ते।
प्रत्येकस्मिन् भोजनालये प्रतिदिनं मध्याह्ने रात्रौ च ताजं पौष्टिकं च भोजनं उपलब्धं करिष्यते। भोजनस्य गुणवत्ताया निरीक्षणं भारतीय-खाद्य-सुरक्षा-मानक-प्राधिकरणेन (एफ़एस्एस्एआई) करणीयं भविष्यति, तथा कर्मचारिणां स्वास्थ्य-प्रमाणपत्राणां पालनं, अन्येषां मानकानां च अनिवार्यतया अनुपालनं सुनिश्चितं करिष्यते।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता