Enter your Email Address to subscribe to our newsletters



नव दिल्ली, 25 दिसंबरमासः (हि.स.)।भारतरत्न पूर्वप्रधानमन्त्रिणः अटलबिहारीवाजपेयिनः एकशतप्रथम्या: जयन्त्यां अवसरं प्रति राष्ट्रपतिः द्रौपदी मुर्मुः उपराष्ट्रपतिः सी पी राधाकृष्णन् प्रधानमन्त्री नरेन्द्र मोदी च अन्ये च जनाः अद्य प्रातः नवीदिल्लीस्थिते विजयघाटनाम्नि स्थले स्थितं सदैवअटल इति स्मारकं प्रति गत्वा पुष्पाञ्जलिं अर्पितवन्तः।लोकसभाध्यक्षः ओम् बिर्ला गृहमन्त्री अमित शाह केन्द्रिय मन्त्री जे पी नड्डा भारतीयजनतापक्षस्य राष्ट्रिय कार्यकारी अध्यक्षः नितिन नबीन दिल्लीमुख्यमन्त्री रेखा गुप्ता इत्यादयः अपि अटलबिहारीवाजपेयीं प्रति श्रद्धाञ्जलिं अर्पितवन्तः।उपराष्ट्रपतिः सी पी राधाकृष्णन् एक्स नाम्नि माध्यमे अवदत् यत् अटलबिहारीवाजपेयी महापुरुषः राजनेता कविश्च एकीकरणस्य प्रतीकः च आसीत्। तस्य वचांसि राष्ट्रं प्रति प्रेरणां दत्तवन्ति तस्य दृष्टिः भविष्यानि प्रति मार्गदर्शनं कृतवती। संवाद गरिमा समर्पण इत्येताभ्यः अटलजिनः अमिटं धरोहरं समाजपरिवर्तनस्य शिक्षां ददाति इति सः उक्तवान्।प्रधानमन्त्री नरेन्द्र मोदी अपि अवदत् यत् अटलबिहारीवाजपेयी स्वजीवनं सुशासनाय राष्ट्रनिर्माणाय च समर्पितवान्। अटलजी प्रखर वक्ता ओजस्वी कवि च आसन्। तस्य व्यक्तित्वं नेतृत्वं च देशस्य सर्वाङ्गीण विकासस्य पथप्रदर्शकं भवति।केन्द्रियगृहमन्त्री अमित शाह अवदत् यत् अटलजी भारतीयजनतापक्षस्य स्थापकः सन् देशहितं सांस्कृतिक राष्ट्रवादं च सर्वोपरि स्थापयामास। अटलजिनः नेतृत्वे एन डी ए सरकारया विरासतं विज्ञानं च सहविकासेन अग्रे नीतम्। परमाणु शक्तिसम्पन्नं भारतं तस्य दृढनीतेः परिणामः इति अपि सः उक्तवान्।भारतीयजनतापक्षस्य राष्ट्रिय कार्यकारी अध्यक्षः नितिन नबीन अवदत् यत् अटलजी मूल्याधारितराजनीतेः विचारधारानिष्ठायाः च स्थम्भः आसीत्। अटलजिना लोकतन्त्राय संवादसंस्कृतिः दत्ता जनसेवा आदर्शीकृता च। तस्य जीवनं राष्ट्रस्य सर्वाङ्गीण विकासाय प्रेरणाभूतं भवति। सः देशवासिभ्यः सुशासन दिवसस्य शुभाशंसनानि अपि दत्तवान्।
---------------
हिन्दुस्थान समाचार