Enter your Email Address to subscribe to our newsletters

पटना, 25 दिसम्बरमासः (हि.स.)
पूर्वप्रधानमन्त्रिणो भारतरत्न स्वर्गीय अटलबिहारीवाजपेयिनो जयंती अद्य बिहारराज्ये सहिते समग्रदेशे उत्साहेन आचिता। स्वर्गीय-अटलबिहारीवाजपेयिनो-जन्मदिने पाटलिपुत्रपार्क् पटना-नगरे राजकीय-जयंती-समारोहः आयोजितः।
मुख्यमंत्री नीतिशकुमार-नामकः अटलजेः प्रतिमायां माल्यार्पणं कृत्वा तस्मै श्रद्धाञ्जलिं अर्पितवान्।
अस्मिन् अवसरे उपमुख्यमन्त्री सम्राट् चौधरी, उपमुख्यमन्त्री विजयकुमारसिन्हा, ग्रामीणकार्य-मन्त्री अशोकचौधरी, विधायकः तथा भारतीयजनतापक्षस्य प्रदेशाध्यक्षः संजयसरावगी, विधायकः संजीवचौरसिया, विधायकः रत्नेशकुशवाहा, बिहारराज्य-आपदाप्रबन्धन-प्राधिकरणस्य उपाध्यक्षः डॉ उदयकान्तमिश्रा, बिहारविधानसभायाः पूर्वाध्यक्षः नन्दकिशोरयादव, बिहार-राज्य-नागरिक-परिषदस्य महासचिवः अरविन्दकुमार, बिहारबालअधिकार- संरक्षण-आयोगस्य पूर्वसदस्यः शिवशङ्करनिषाद-नामकः सहिताः अनेके गण्यमान्यव्यक्तयः सामाजिक-राजनीतिक-कार्यकर्तारश्च अटलवाजपेयी-प्रतिमायां माल्यार्पणं कृत्वा श्रद्धाञ्जलिं दत्तवन्तः।
अस्मिन् एव अवसरे सूचना-जनसम्पर्क-विभागस्य कलाकारैः आरती-पूजनं बिहार-गीतस्य च देशभक्तिगीतानां च गायनं अपि कृतम्।
---------------
हिन्दुस्थान समाचार