मतदातृ-श्रवणेषु जन्मतिथि-त्रुटिषु विशेषतया निरीक्षणं कुर्वन्तु सूक्ष्मपर्यवेक्षकाः — निर्वाचन-आयोगः
कोलकाता, 25 दिसंबरमासः (हि.स.)। पश्चिम-बङ्गाल-राज्ये मतदाता-सूच्याः विशेषगहन-पुनरीक्षणस्य (एस्–आइ–आर्) अन्तर्गतं आयोजितानां श्रवण-सभानां विषये भारतनिर्वाचन-आयोगेन सूक्ष्म-पर्यवेक्षकान् प्रति महत्त्वपूर्णाः निर्देशाः प्रदत्ताः। आयोगेन स्पष्टतया निर्
मुख्य चुनाव अधिकारी मनोज अग्रवाल


कोलकाता, 25 दिसंबरमासः (हि.स.)। पश्चिम-बङ्गाल-राज्ये मतदाता-सूच्याः विशेषगहन-पुनरीक्षणस्य (एस्–आइ–आर्) अन्तर्गतं आयोजितानां श्रवण-सभानां विषये भारतनिर्वाचन-आयोगेन सूक्ष्म-पर्यवेक्षकान् प्रति महत्त्वपूर्णाः निर्देशाः प्रदत्ताः। आयोगेन स्पष्टतया निर्देशितं यत् श्रवण-प्रक्रियायां मतदातॄणां जन्मतिथ्या सम्बन्धिषु यत्किञ्चित् अपि अन्तरं दृश्यते चेत् तत्र विशेषा सतर्कता अवलम्बनीया। बङ्गालस्य मुख्यनिर्वाचन-अधिकारी-कार्यालयस्य एकेन अधिकारिणा उक्तं यत् सूक्ष्म-पर्यवेक्षकानां कर्तव्य-विषये स्पष्टाः निर्देशाः दत्ताः। तेषां अवगतं कृतं यत् श्रवण-काले आयोगस्य अभिलेखेषु अंकितायाः जन्मतिथ्याः तथा मतदातृभिः प्रस्तुतानां परिचय-पत्राणां जन्मतिथ्याः मध्ये अन्तरं सम्भवति।

सूत्रैः सूचितं यत् यदि एतादृशाः प्रसङ्गाः प्रकाशं यान्ति, तर्हि सूक्ष्म-पर्यवेक्षकाणां दायित्वं भविष्यति यत् ताः अनियमितताः अभिलिखेयुः तथा स्वेषां वरिष्ठ-अधिकारीणां प्रति प्रतिवेदनं समर्पयेयुः। श्रवण-प्रक्रियायाः समाप्तेः अनन्तरं एतेषां प्रकरणानां अतिरिक्त-परीक्षणं क्रियते। निर्वाचन-आयोगेन सूक्ष्म-पर्यवेक्षकान् प्रति अपि निर्देशः दत्तः यत् ते मतदातृभिः प्रस्तुतानां अभ्यार्थयाः तुलना श्रवण-काले समर्पितैः सहायक-प्रपत्रैः सह अवश्यं कुर्वन्तु। अस्य उद्देश्यं सम्पूर्ण-प्रक्रियायाः पूर्णतया पारदर्शकता तथा विश्वसनीयता सुनिश्चितीकरणम् अस्ति।

मुख्य-निर्वाचन-अधिकारी-कार्यालयस्य सूत्रैः उक्तं यत् आयोगस्य लक्ष्यं एतदेव यत् न कश्चन वैधः मतदाता अन्तिम-मतदाता-सूच्याः अपसारितः भवेत्, न च कश्चन अप्रामाणिकः मतदाता सूच्यां प्रविष्टिं लभेत।

मतदाता-सूच्याः विषये प्रथम-चरणे २७ दिसम्बरतः आरभ्य तान् अनियोजित-मतदातॄन् श्रवणाय आह्वास्यन्ते, ये न स्व-मैपिङ्ग्-माध्यमेन २००२-तमे वर्षे प्रकाशितायाः मतदाता-सूच्याः सह सम्बद्धाः सन्ति, न च वंशज-नियोजन-माध्यमेन। एतेषां मतदातॄणां संख्या त्रिंशत्-लक्षाधिकाः इति निर्दिष्टा।

द्वितीय-चरणे तान् सन्दिग्ध-मतदातॄन् श्रवणाय आह्वास्यन्ते, येषां पारिवारिक-विवरणेषु वंशज-नियोजन-प्रक्रियायाम् अनियमितताः दृष्टाः। एतादृशेषु प्रकरणेषु संख्या प्रायः एक-कोटि-षट्-त्रिंशत्-लक्षपर्यन्ता इति कथ्यते। पश्चिम-बङ्गाल-राज्ये एतत् पूर्वं विशेष-गहन-पुनरीक्षणं वर्षे २००२ सम्पन्नम् आसीत्। योजना-मतदाता-सूची १६ दिसम्बर-दिने पूर्वमेव प्रकाशिताभवत्। अन्तिम-मतदाता-सूची १४ फरवरी-दिने प्रकाशयिष्यते। ततः परं निर्वाचन-आयोगः राज्ये भविष्यन्ति विधानसभा-निर्वाचनानां दिनाङ्कम् उद्घोषयिष्यति।--------------------

हिन्दुस्थान समाचार / अंशु गुप्ता